________________
| समश्रेणिं प्रतिपद्यते पञ्चमेन तूत्पत्तिस्थानं प्राप्नोति, तत्र चाद्ये समयचतुष्टये वक्रचतुष्टयं स्यात्, तत्र चानाहारक इति, इदं च सूत्रे न दर्शितं प्रायेणेत्थमनुत्पत्तेरिति । 'एवं दंडओ'त्ति अमुनाऽभिलापेन चतुर्विंशतिदण्डको वाच्यः, तत्र च जीवपदे एकेन्द्रियपदेषु च पूर्वोक्तभावनयैव चतुर्थे समये नियमादाहारक इति वाच्यं, शेषेषु तृतीयसमये नियमादाहारक इति, तत्र यो नारकादित्रसस्त्रसेष्वेवोत्पद्यते तस्य नाड्या बहिस्तादागमनं गमनं च नास्तीति तृतीयसमये निय मादाहारकत्वं, तथाहि - यो मत्स्यादिर्भरतस्य पूर्वभागादैरवतपश्चिमभागस्याधो नरकेषूत्पद्यते स एकेन समयेन भरतस्य पूर्वभागात्पश्चिमं भागं याति द्वितीयेन तु तत एैरवतपश्चिमं भागं ततस्तृतीयेन नरकमिति, अत्र चाद्ययोरनाहारकस्तृतीये त्वाहारकः, एतदेव दर्शयति- 'जीवा एगिंदिया य चउत्थे समये सेसा तइयसमए'त्ति ॥ 'कं समयं सङ्घप्पाहारए' ति कस्मिन् समये सर्वाल्पः - सर्वथा स्तोको न यस्मादन्यः स्तोकतरोऽस्ति स आहारो यस्य स सर्वाल्पाहारः स एव सर्वाल्पाहारकः, 'पदमसमयोववन्नए'त्ति प्रथमसमय उत्पन्नस्य प्रथमो वा समयो यत्र तत् प्रथमसमयं तदुत्पन्नं - उत्पत्तिर्यस्य स तथा, उत्पत्तेः प्रथमसमय इत्यर्थः, तदाहारग्रहणहेतोः शरीरस्याल्पत्वात्सर्वाल्पाहारता भवतीति, 'चरमसमयभवत्थे व'त्ति चरमसमये भवस्य - जीवितस्य तिष्ठति यः स तथा, आयुपश्चरमसमय इत्यर्थः, तदानीं प्रदेशानां संहृतत्वेनाल्पेषु शरीरावयवेषु स्थितत्वात्सर्वाल्पाहारतेति ॥ अनाहारकत्वं च जीवानां विशेषतो लोकसंस्थानवशाद्भवतीति लोकप्ररूपणसूत्रम्
किंसंठिए णं भंते ! लोए पन्नते ?, गोयमा ! सुपरट्ठगसंठिएलोए पन्नत्ते, हेट्ठा विच्छिन्ने जाव उपि उमुईगागारसंदिए, लेसिं चणं सासयंसि लोगंसि हेट्ठा विच्छिन्नंसि जाव उपि उहंसुइंगागारसंठियंसि उप्पन्न
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org