SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ निहत्त'त्ति जातिनाम निधत्तं-निषिक्तं विशिष्टबन्धं वा कृतं यैस्ते जातिनामनिधत्ताः १ एवं गतिनामनिधत्ताः२, यावकरणात् 'ठितिनामनिहत्ता ३ ओगाहणानामनिहत्ता ४ पएसनामनिहत्ता ५ अणुभागनामनिहत्ता ६' इति दृश्यं." व्याख्या तथैव, नवरं जात्यादिनाम्नां या स्थितिर्ये च प्रदेशा यश्चानुभागस्तत्स्थित्यादिनाम अवगाहनानाम शरीरनामेति, | अयमेको दण्डको वैमानिकान्तः १, तथा 'जातिनामनिहत्ता'त्ति जातिनाम्ना सह निधत्तमायुयॆस्ते जातिनामनिधत्तायुषः, एवमन्यान्यपि पदानि, अयमन्यो दण्डकः २, एवमेते 'दुवालस दंडग'त्ति अमुना प्रकारेण द्वादश दण्डका भवन्ति, तत्र द्वावाद्यौ दर्शितावपि सङ्ख्यापूरणार्थं पुनदर्शयति-जातिनामनिधत्ता इत्यादिरेकः, 'जाइनामनिहत्ताउया' इत्यादितिीयः २ । 'जीवा णं भंते ! किं जाइनामनिउत्ता'इत्यादिस्तृतीयः ३, तत्र जातिनाम नियुक्त-नितरां युक्त|संबद्धं निकाचितं वेदने वा नियुक्तं यैस्ते जातिनामनियुक्ताः, एवमन्यान्यपि ५, 'जाइनामनिउत्ताउया'इत्यादिश्चतुर्थः, | तत्र जातिनाम्ना सह नियुक्तं-निकाचितं वेदयितुमारब्धं वाऽऽयुर्यै स्ते तथा, एवमन्यान्यपि ५, 'जाइगोयनिहत्ता इत्यादिः पञ्चमः, तत्र जातेः-एकेन्द्रियादिकाया यदुचितं गोत्रं-नीचैर्गोत्रादि तजातिगोत्रं तन्निधत्तं यैस्ते जातिगोत्रनिधत्ता, | एवमन्यान्यपि ५, जाइगोयनिहत्ताउया य इत्यादि षष्ठः, तत्र जातिगोत्रेण सह निधत्तमायुयैस्ते जातिगोत्रनिधत्तायुष | एवमन्यान्यपि ५ 'जाइगोयनिउत्ता'इत्यादिसप्तमः ७ तत्र जातिगोत्रं नियुक्तं यैस्ते तथा, एवमन्यान्यपि ५, 'जाइगोयनिउत्ताउया'इत्यादिरष्टमः ८ तत्र जातिगोत्रेण सह नियुक्तमायुयस्ते तथा, एवमन्यान्यपि ५, 'जातिनामगोयनिहत्ता'इत्यादिर्नवमः ९ तत्र जातिनाम गोत्रं च निधत्तं यैस्ते तथा, एवमन्यान्यपि ५, 'जीवा णं भंते ! किं जाइ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy