________________
R
६ शतके
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः१ ॥२८॥
कर्मरूपा एवेति नामशब्दः सर्वत्र कर्मार्थों घटत इति स्थितिरूपं नाम-नामकर्म स्थितिनाम तेन सह निधत्तं यदायस्तस्थितिनामनिधत्तायुरिति ३, "ओगाहणानामनिधत्ताउए'त्ति अवगाहते यस्यां जीवः साऽवगाहना-शरीरं औदारिकादि
उद्देश: तस्या नाम-औदारिकादिशरीरनामकर्मेत्यवगाहनानाम अवगाहनारूपो वा नाम-परिणामोऽवगाहनानाम तेन सह
जातिनाम
निधत्तादिः यन्निधत्तमायुस्त दवगाहनानामनिधत्तायुः ४, 'पएसनामनिहत्ताउए'त्ति प्रदेशानां-आयुःकर्मद्रव्याणां नाम-तथाविधा परिणतिः प्रदेशनाम प्रदेशरूपं वा नाम-कर्मविशेष इत्यर्थः प्रदेशनाम तेन सह निधत्तमायुस्तत्प्रदेशनामनिधत्तायुरिति, ५, "अणुभागनामनिधत्ताउए'त्ति अनुभाग-आयुर्द्रव्याणामेव विपाकस्तल्लक्षण एव नाम-परिणामोऽनुभागनाम अनु| भागरूपं वा नामकर्म अनुभागनाम तेन सह निधत्तं यदायुस्तदनुभागनामनिधत्तायुरिति । अथ किमर्थ जात्यादिनामकर्मणाऽऽयुर्विशेष्यते ?, उच्यते, आयुष्कस्य प्राधान्योपदर्शनार्थ यस्मानारकाद्यायुरुदये सति जात्यादिनामकर्मणामुदयो भवति, नारकादिभवोपग्राहकं चायुरेव, यस्मादुक्तमिहैव-'नेरइए णं भंते ! नेरइएसु उववज्जइ अनेरइए नेरइएसु उववजइ ?, गोयमा ! नेरइए नेरइएसु उववजइ नो अनेरइए नेरइएसु उववज्जइ'त्ति, एतदुक्तं भवति–नारकायुःप्रथमसमयसंवेदन | एव नारका उच्यन्ते तत्सहचारिणां च पञ्चेन्द्रियजात्यादिनामकर्मणामप्युदय इति, इह चायुर्वन्धस्य पविधत्वे उपक्षिप्ते यदायुषः षड्रविधत्वमुक्तं तदायुषो बन्धाव्यतिरेकाद्वद्धस्यैव चायुर्व्यपदेशविषयत्वादिति । 'दडओ'त्ति 'नेरइयाणं भंते ! |
॥२८॥ कतिविहे आउयबंधे पन्नत्ते' ? इत्यादिवैमानिकान्तश्चतुर्विंशतिदण्डको वाच्योऽत एवाह-'जाव वेमाणियाणं'ति ॥ अथ कर्मविशेषाधिकारात्तद्विशेषितानां जीवादिपदानां द्वादश दण्डकानाह-'जीवा णं भंते !' इत्यादि, 'जातिनाम
ASARALA
Jain EducationR
.
For Personal & Private Use Only
www.ainelibrary.org