SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ नवरं देवो एगो पकरेति । एवं बंभलोएवि । एवं बंभलोगस्स उवरिं सबहिं देवो पकरेति, पुच्छियत्वो य. बायरे आउकाए बायरे अगणिकाए बायरे वणस्सइकाए अन्नं तं चेव ॥ गाहा-तमुकाए कप्पपणए अगणी पुढवी य अगणि पुढवीसु । आऊतेऊवणस्सइ कप्पुवरिमकण्हराईसु॥१॥ (सूत्रं २४९)॥ 'कइ ण'मित्यादि, 'बादरे अगणिकाए'इत्यादि, ननु यथा बादराग्नेर्मनुष्यक्षेत्र एव सद्भावान्निषेध इहोच्यते एवं | बादरपृथिवीकायस्यापि निषेधो वाच्यः स्यात् पृथिव्यादिष्वेव स्वस्थानेषु तस्य भावादिति, सत्यं, किन्तु नेह यद्यत्र नास्ति | तत्तत्र सर्व निषिध्यते मनुष्यादिवद् विचित्रत्वात् सूत्रगतेरतोऽसतोऽपीह पृथिवीकायस्य न निषेध उक्तः, अप्कायवायुवनस्पतीनां त्विह घनोदध्यादिभावेन भावान्निषेधाभावः सुगम एवेति, 'नो नाओ'त्ति नागकुमारस्य तृतीयायाः पृथिव्या | अधोगमनं नास्तीत्यत एवानुमीयते, 'नो असुरो नो नागो'त्ति, इहाप्यत एव वचनाच्च चतुर्थ्यादीनामधोऽसुरकुमारनागकुमारयोर्गमनं नास्तीत्यनुमीयते, सौधर्मेशानयोस्त्वधोऽसुरो गच्छति चमरवत् न नागकुमारः अशक्तत्वात् , अत एवाह'देवो पकरेई'इत्यादि, इह च वादरपृथिवीतेजसोर्निषेधः सुगम एवास्वस्थानत्वात् , तथाऽब्वायुवनस्पतीनामनिषेधोऽपि सुगम एव, तयोरुदधिप्रतिष्ठितत्वेनाबूवनस्पतिसम्भवाद् वायोश्च सर्वत्र भावादिति । 'एवं सणंकुमारमाहिंदेसु'त्ति |8| इहातिदेशतो बादराब्वनस्पतीनां सम्भवोऽनुमीयते, स च तमस्कायसद्भावतोऽवसेय इति । एवं बंभलोयस्स उवरि सबहिंति अच्युतं यावदित्यर्थः परतो देवस्यापि गमो नास्तीति न तत्कृतवलाहकादेर्भावः 'पुच्छियवो यत्ति बादरो|ऽप्कायोऽग्निकायो वनस्पतिकायश्च प्रष्टव्यः, 'अन्नं तं चेव'त्ति वचनान्निषेधश्च, यतोऽनेन विशेषोक्तादन्यत्सर्वे पूर्वोक्त-8 गम एव, तयोरुदधिप्रतिवादरपृथिवीतेजसोनिधारो गच्छति चमरवत् नमा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy