________________
SAHARA
न्तं श्लक्ष्णा श्लक्ष्णश्लक्ष्णा सैव श्लक्ष्णश्लक्ष्णिका उत्-प्राबल्येन श्लक्ष्णश्लक्ष्णिका उत्श्लक्ष्णश्लक्ष्णिका 'इति' उपदर्शने 'वा' समुच्चये, एतेच उत्श्लक्ष्णश्लक्ष्णिकादयोऽङ्गुलान्ता दश प्रमाणभेदा यथोत्तरमष्टगुणाः सन्तोऽपि प्रत्येकमनन्तपरमा|णुत्वं न व्यभिचरन्तीत्यत उक्तम्-'उस्सण्हसहियाइ वे'त्यादि, 'सण्हसण्हिय'त्ति प्राक्तनप्रमाणापेक्षयाऽष्टगुणत्वाद् ऊर्ध्वरेण्वपेक्षया त्वष्टमभागत्वात् श्लक्ष्णश्लक्ष्णिका इत्युच्यते, 'उड्डरेणु'त्ति अधिस्तिर्यक्चलनधर्मोपलभ्यो रेणुः उद्धरेणुः |'तसरेणु'त्ति व्यस्यति-पौरस्त्यादिवायुप्रेरितो गच्छति यो रेणुः स त्रसरेणुः रिहरेणु'त्ति रथगमनोत्खातो रेणू रथरेणुः वालाग्रलिक्षादयः प्रतीताः 'रयणि'त्ति हस्तः 'नालिय'त्ति यष्टिविशेषः 'अक्खे'त्ति शकटावयवविशेषः 'तं तिउर्ण सविसेसं परिरएणं'ति तद् योजनं त्रिगुणं सविशेष, वृत्तपरिधेः किञ्चिन्यूनषड्भागादिकत्रिगुणत्वात् , 'से णं एक्काहि| यबेहियतेहिय'त्ति षष्ठीबहुवचनलोपाद् एकाहिकद्व्याहिकत्र्याहिकानाम् 'उक्कोस'त्ति उत्कर्षतः सप्तरात्रप्ररूढानां भृतो | वालाग्रकोटीनामिति सम्बन्धः, तत्रैकाहिक्यो मुण्डिते शिरसि एकेनाह्रा यावत्यो भवन्तीति, एवं शेषास्वपि भावना कार्या, कथम्भूतः ? इत्याह-संसृष्टः' आकर्णभृतः संनिचितः प्रचयविशेषान्निविडः, किंबहुना ?, एवं भृतोऽसौ येन तेणं'ति तानि वालाग्राणि 'नो कुत्थेज'त्ति न कुथ्येयुः प्रचयविशेषाच्छुषिराभावाद्वायोरसम्भवाच्च नासारतां गच्छेयुरित्यर्थः, अत एव 'नो परिविद्धंसेज'त्ति न परिविध्वंसेरन्-कतिपयपरिशाटमप्यङ्गीकृत्य न विध्वंसं गच्छेयुः, अत एव च 'नो| पूइत्ताए हवमागच्छेज्जत्ति न पूतितया-न पूतिभावं कदाचिदागच्छेयुः 'तओणं'ति तेभ्यो वालाग्रेभ्यः 'एगमेगं । वालग्गं अवहाय'त्ति एकैकं वालाग्रमपनीय कालो मीयत इति शेषः, ततश्च 'जावइएण'मित्यादि, यावता कालेन ।
SHTRA
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org