SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ कालसमयः अतीतः कालसमयः ( अतीतकालसमयः ) अतीतकालस्य चोत्सर्पिण्यादेः समयः - परमनिकृष्टोऽंशोऽतीतकालसमयस्तत्र 'पडुप्पन्न' त्ति प्रत्युत्पन्नो - वर्त्तमानः, नोऽतीतकालेत्यादौ अतीतानागतकालविषयग्रहणप्रतिषेधो विषयातीतत्वात्, विषयातीतत्त्वं च तयोर्विनष्टानुत्पन्नत्वेनासच्वादिति, प्रत्युत्पन्नत्वेऽप्यभिमुखान् गृह्णाति नान्यान्, 'गहण | समयपुरक्खडे 'त्ति ग्रहणसमयः पुरस्कृतो वर्त्तमानसमयस्य पुरोवत्तीं येषां ते ग्रहणसमयपुरस्कृताः, प्राकृतत्वादेवं निर्देशः, अन्यथा पुरस्कृत ग्रहणसमया इति स्याद् ग्रहीष्यमाणा इत्यर्थः १, उदीरणा च पूर्वकालगृहीतानामेव भवति, ग्रहणपूर्वकत्वादुदीरणायाः, अत उक्तम्- अतीतकालसमयगृहीतानुदीरयन्तीति, गृह्यमाणानां ग्रहीष्यमाणानां चागृहीतत्वादुदीरणाऽभावस्तत उक्तं- 'नो पडुप्पन्ने' त्यादि २ | वेदनानिर्जरासूत्रयोरप्येषैवोपपत्तिरिति ॥ ३-४ ॥ अथ कर्माधिकारादेवेयमष्टसूत्री ; नेरइयाणं भंते ! जीवाओं किं चलियं कम्मं बंधंति अचलियं कम्मं बंधंति ?, गोयमा ! नो चलियं कम्मं बंधंति अचलियं कम्मं बंधंति ९ । नेरइयाणं भंते ! जीवाओ किं चलियं कम्मं उदीरेंति अचलियं कम्मं उदीरेंति ?, गोयमा ! | नो चलियं कम्मं उदीरेंति अचलियं कम्मं उदीरेति २ । एवं वेदेति ३ उयोंति ४ संकामेंति ५ निहतेंति ६ निकार्येति ७, सव्वेसु अचलियं नो चलियं । नेरइयाणं भंते! जीवाओ किं चलियं कम्मं निज्जरेंति अचलियं कम्मं निज्जरेंति ?, गोयमा ! चलियं कम्मं निज्जरेंति नो अचलियं कम्मं निज्जरेंति ८, गाहा-बंधोदयवेदोयइसकमे तह निहत्तणनिकाये | अचलियं कम्मं तु भवे चलियं जीवाउ निजरए ॥ १ ॥ ( सू० १४ ) एवं Jain Educationonal For Personal & Private Use Only jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy