________________
| नेति भजनेति ॥ आहारकद्वारे 'दोवि भयणाए'त्ति आहारको वीतरागोऽपि भवति न चासौ ज्ञानावरणं बध्नाति सरागस्त बनातीति आहारको भजनया बनाति, तथाऽनाहारकः केवली विग्रहगत्यापन्नश्च स्यात्तत्र केवली न बध्नाति इतरस्तु बनातीति अनाहारकोऽपि भजनयेति । 'वेयणिजं आहारए बंधई'त्ति अयोगिवर्जानां सर्वेषां वेदनीयस्य बन्धकत्वात् , 'अणाहारए भयणाए'त्ति अनाहारको विग्रहगत्यापन्नः समुद्घातगतकेवली च बध्नाति अयोगी सिद्धश्चन बनातीति भजना, 'आउए आहारए भयणाए'त्ति आयुर्वन्धकाल एवायुषो बन्धनात् अन्यदा त्वबन्धकत्वाद्भजनेति | 'अणाहारए ण बंधति'त्ति विग्रहगतिगतानामप्यायुष्कस्याबन्धकत्वादिति ॥ सूक्ष्मद्वारे 'बायरे भयणाए'त्ति वीतरागवादराणां ज्ञानावरणस्याबन्धकत्वात् सरागबादराणां च बन्धकत्वाद्भजनेति, सिद्धस्य पुनरबन्धकत्वादाह-'नो सुहुने इत्यादि, 'आउए सुहमे बायरे भयणाए'त्ति बन्धकाले बन्धनादन्यदा त्वबन्धनाद् भजनेति ॥ चरमद्वारे 'अट्टावि भयणाए'त्ति, इह यस्य चरमो भवो भविष्य तीति स चरमः, यस्य तु नासौ भविष्यति सोऽचरमः, सिद्धश्चाचरमः, चरमभवाभावात् , तत्र चरमो यथायोगमष्टापि बध्नाति अयोगित्वे तु नेत्येवं भजना, अचरमस्तुः संसारी अष्टापि बनाति सिद्धस्तु नेत्येवमत्रापि भजनेति ॥
एएसिणं भंते ! जीवाणं इत्थिवेदगाणं पुरिसवेदगाणं नपुंसगवेदगाणं अवेयगाणय कयरे २ अप्पा वा ४१, |गोयमा ! सचत्थोवा जीवा पुरिसवेदगा इत्थिवेदगा संखेजगुणा अवेदगा अणंतगुणा नपुंसगवेदगा अणंत
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org