SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ कर्मद्रव्याणामेव च मन्देतरानुभावचिन्ताऽस्ति न द्रव्यान्तराणामितिकृत्वा कर्मद्रव्यवर्गणामधिकृत्येत्युक्तम् , 'अणूं चेव वायरा चेव'त्ति चेवशब्दः समुच्चयार्थः, ततश्चाणवश्च बादराश्च, सूक्ष्माश्च स्थूलाश्चेत्यर्थः सूक्ष्मत्वं स्थूलत्वं चैषां कर्मद्रव्यापेक्षयैवागतन्तव्यं नान्यापेक्षया, यत औदारिकादिद्रव्याणां मध्ये कर्मद्रव्याण्येव सूक्ष्माणीति । एवं चयोपचयोदीरणवेदननिर्जराः शब्दार्थभेदेन वाच्याः, किन्तु चयसूत्रे उपचयसूत्रे च 'आहारदव्ववग्गणमहिकिच्चेति यदुक्तं तत्रायमभिप्रायः-शरीरमाश्रित्य चयोपचयौ प्राग् व्याख्यातौ, तौ चाहारद्रव्येभ्य एव भवतो नान्यतः, अत आहारद्रव्यवर्गणामधिकृत्येत्युक्तमिति, उदीरणादयस्तु कर्मद्रव्याणामेव भवन्त्यतस्तत्सूत्रेपूक्तं कर्मद्रव्यवर्गणामधिकृत्येति । |'उयहिंसु'त्ति अपवर्तितवन्तः, इहापवर्तनं कर्मणां स्थित्यादेरध्यवसायविशेषेण हीनताकरणम् , अपवर्तनस्य चोपलक्षणत्वादुद्वर्तनमपीह दृश्यं, तच्च स्थित्यादेवृद्धिकरणस्वरूपं, 'संकामेंसुत्ति संक्रमितवन्तः, तत्र संक्रमणं मूलप्रकृत्यभिन्नानामुत्तरप्रकृतीनामध्यवसायविशेषेण परस्परं संचारणं, तथा चाह-"मूलप्रकृत्यभिन्नाः संक्रमयति गुणत उत्तराः प्रकृती। नन्वात्माऽमूर्तत्वादध्यवसायप्रयोगेण ॥१॥" अपरस्त्वाह-"मोत्तूण आउयं खलु देसणमोहं चरित्तमोहं च । सेसाणं पगईणं उत्तरविहिसंकमो भणिओ ॥१॥” एतदेव निदयते-यथा कस्यचित्सद्वेद्यमनुभवतोऽशुभकर्मपरिणतिरेवंविधा जाता येन तदेव सद्वेद्यमसद्वेद्यतया संक्रामतीति, एवमन्यत्रापि योज्यमिति । 'निधत्तेसु'त्ति निधत्तान् कृतवन्तः, इह च || विश्लिष्टानां परस्परतः पुद्गलानां निचयं कृत्वा धारणं रूढिशब्दत्वेन निधत्तमुच्यते, उद्वर्तनापवर्त्तनव्यतिरिक्तकरणा १ आयुर्दर्शनमोहं चारित्रमोहं च मुक्त्वा । शेषाणां प्रकृतीनामुत्तरविधिसंक्रमो भणितः ॥ १॥ पा०५ For Personal & Private Use Only jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy