SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ 344444444444444 दर्शितम् । तथा 'परिवुडे'त्ति अलोकेन परिवृतः 'हेट्ठा विच्छिन्नेत्ति सप्तरजुविस्तृतत्वात् 'मझे संखित्तेत्ति एकरज्जुविस्तारत्वात् 'उप्पिं विसाले'त्ति ब्रह्मलोकदेशस्य पञ्चरज्जुविस्तारत्वात्, एतदेवोपमानतः प्राह-'अहे पलियंकसंठिए'त्ति उपरिसङ्कीर्णत्वाधोविस्तृतत्वाभ्यां 'मज्झे वरवइरविग्गहिए'त्ति वरवज्रवद्विग्रहः-शरीरमाकारो मध्यक्षामत्वेन यस्य स तथा, स्वार्थिकश्चेकप्रत्ययः,'उप्पि उद्धमुइंगागारसंठिए'त्ति ऊोन तु तिरश्चीनो यो मृदङ्गस्तस्याकारेण संस्थितो यः स तथा, मल्लकसंपुटाकार इत्यर्थः, 'अणंता जीवघण'त्ति 'अनन्ताः' परिमाणतः सूक्ष्मादिसाधारणशरीराणां विवक्षितत्वात् , सन्तत्यपेक्षया वाऽनन्ताः, जीवसन्ततीनामपर्यवसानत्वात् , जीवाश्च ते घनाश्चानन्तपर्यायसमूहरूपत्वादसङ्ख्येयप्रदेशपिण्डरूपत्वाच्च जीवघनाः, किमित्याह-'उप्पज्जित्तेति उत्पद्योत्पद्य 'विलीयन्ते' विनश्यन्ति, तथा 'परीत्ता' प्रत्येकशरीरा अनपेक्षितातीतानागतसन्तानतया वा सङ्क्षिसाः, जीवघना इत्यादि तथैव, अनेन च प्रश्ने यदुक्तम् 'अणंता राईदिया'इत्यादि तस्योत्तरं सूचितं, यतोऽनन्तपरीत्तजीवसम्बन्धात्कालविशेषा अप्यनन्ताः परीत्ताश्च व्यपदिश्यन्तेऽतो विरोधः परिहृतो भवतीति । अथ लोकमेव स्वरूपत आह-से (नूर्ण) भूए'त्ति यत्र जीवघना उत्पद्य २ विलीयन्ते स लोको भूता-सद्भूतो भवनधर्मयोगात् , स चानुत्पत्तिकोऽपि स्याद् यथा नयमतेनाकाशमत आह-उत्पन्नः, एवं विधश्चानश्वरोऽपि स्याद् यथा विवक्षितघटाभाव इत्यत आह-विगतः, स चानन्वयोऽपि किल भवतीत्यत आह-परिणतः-पर्यायान्तराणि आपन्नो न तु निरन्वयनाशेन नष्टः। अथ कथमयमेवंविधो निश्चीयते ? इत्याह-'अजीवहिं ति 'अजीवैः' पुद्गलादिभिःसत्तां बिभ्रद्भिरुत्पद्यमानैर्विंगच्छद्भिः परिणमद्भिश्च लोकानन्यभूतैः 'लोक्यते' निश्चीयते 'प्रलोक्यते' प्रकर्षण निश्चीयते, भूतादि Jain Educationine For Personal & Private Use Only how.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy