________________
FASHA%9545452
णताः परिणस्यन्ते च, यतोऽयं तेनैवं व्याख्यातः-यदुत ये पुनराहता आहरिष्यन्ते पुनस्तेषां केचित्परिणताः परिणताश्च ||3| ये संपृक्ताः शरीरेण सह, ये तु न तावत्संपृच्यन्ते कालान्तरे तु संपृश्यन्ते ते परिणस्यन्त इति २। ये पुनरनाहृता आह-|| रिष्यन्ते पुनस्ते नो परिणताः, अनाहतानां संपर्काभावेन परिणामाभावात् , यस्मात्त्वाहरिष्यन्ते ततः परिणंस्यन्ते, आह-|
तस्यावश्यं परिणामभावादिति । चतुर्थस्त्वतीतभविष्यदाहरणक्रियाया अभावेन परिणामाभावादवसेय इति । एत& दनुसारेणैव प्राग्दर्शितविकल्पानामुत्तरसूत्राणि वाच्यानीति ॥ अथ शरीरसंपर्कलक्षणपरिणामात्पुद्गलानां चयादयो भवशान्तीति तदर्शनार्थ प्रश्नयन्नाह-नेरइयाण'मित्यादि चयादिसूत्राणि परिणामसूत्रसमानीतिकृत्वाऽतिदेशतोऽधीतानीति, | तथाहि-जहा परिणया तहा चियावी'त्यादि, इह च पुस्तकेषु वाचनाभेदो दृश्यते तत्र न संमोहः कार्यः, सर्वत्राभिधेयस्य तुल्यत्वात् , केवलं परिणतसूत्रानुसारेण प्रश्नसूत्राणि व्याकरणानि च मतिमताऽध्येयानीति, तत्र "चिताः' शरीरे चयं गताः, 'उपचिताः' पुनर्बहुशः प्रदेशसामीप्येन शरीरे चिता एवेति, उदीरितास्तु स्वभावतोऽनुदितान् पुद्गलानुदयप्राप्ते कर्मदलिके करणविशेषेण प्रक्षिप्य यान् वेदयते, उदीरणा लक्षणं चेदम्-"ज करणेणाकहिय उदए दिजइ||8| उदीरणा एसा।" तथा 'वेदिताः' स्वेन रसविपाकेन प्रतिसमयमनुभूयमानाः अपरिसमाप्ताशेषानुभावा इति । तथा 'निर्जीर्णाः' कात्सर्येनानुसमयमशेषतद्विपाकहानियुक्ता इति । 'गाह'त्ति परिणतादिसूत्राणां संग्रहणाय गाथा भवति, सा| चेयम्-'परिणयेत्यादि व्याख्यातार्था, नवरम्-एकैकस्मिन् पदे परिणतचितोपचितादौ चतुर्विधाः आहृताः १ आहृता
१ अध्यवसायेनाकृष्टा यदुदयमानीयते कर्म एषोदीरणा ॥ * कर्मप्रकृति उदीर० गा० १
ORE
Jain Education Menatonal
For Personal & Private Use Only
www.jainelibrary.org