SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥२४१ ॥ सप्रदेश इति ॥ निरूपितो द्रव्यतोऽप्रदेशोऽथ क्षेत्रतोऽप्रदेशं निरूपयन्नाह - 'जे खेतओ अप्परसे' इत्यादि, यः क्षेत्रतोSप्रदेशः स द्रव्यतः स्यात्सप्रदेशः, द्व्यणुकादेरप्येक प्रदेशावगाहित्वात् स्यादप्रदेशः, परमाणोरप्येक प्रदेशावगाहित्वात्, 'कालओ भयणाए 'त्ति क्षेत्रतोऽप्रदेशो यः स कालतो भजनयाऽप्रदेशादिर्वाच्यः, तथाहि - एकप्रदेशावगाढः एकसमयस्थितिकत्वादप्रदेशोऽपि स्यात् अनेकसमयस्थितिकत्वाच्च सप्रदेशोऽपि स्यादिति 'भावओ भयणाए 'ति क्षेत्रतोऽप्रदेशो योs - | सावेकगुणकालकत्वादप्रदेशोऽपि स्यात् अनेकगुणकालकादित्वाच्च सप्रदेशोऽपि स्यादिति ॥ अथ कालाप्रदेशं भावाप्रदेशं च निरूपयन्नाह - 'जहा खेत्तओ एवं कालओ भावओ'ति यथा क्षेत्रतोऽप्रदेश उक्त एवं कालतो भावतश्चासौ वाच्यः, तथाहि - 'जे कालओ अप्पएसे से दबओ सिय सप्पएसे सिय अप्पएसे' । एवं क्षेत्रतो भावतश्च तथा - 'जे भावओ अप्परसे से दबओ सिय सप्पएसे सिय अप्पएसे' एवं क्षेत्रतः कालतश्चेति ॥ उक्तोऽप्रदेशोऽथ सप्रदेशमाह - 'जे दवओ सप्पए से ' इत्यादि, अयमर्थः - यो द्रव्यतो द्व्यणुकादित्वेन सप्रदेशः स क्षेत्रतः स्यात्सप्रदेशो द्व्यादिप्रदेशावगाहित्वात् स्यादप्रदेश एक प्रदेशावगाहित्वात् एवं कालतो भावतश्च, तथा यः क्षेत्रतः सप्रदेशो द्वयादिप्रदेशावगाहित्यात् स द्रव्यतः सप्रदेश एव, द्रव्यतोऽप्रदेशस्य द्व्यादिप्रदेशावगाहित्याभावात् कालतो भावतश्चासौ द्विधाऽपि स्यादिति, तथा यः कालतः सप्रदेशः स द्रव्यतः क्षेत्रतो भावतश्च द्विधाऽपि स्यात्, तथा यो भावतः सप्रदेशः स द्रव्यक्षेत्रकालैद्विधाऽपि स्यादिति सप्रदेशसूत्राणां भावार्थ इति ॥ अथैषामेव द्रव्यादितः सप्रदेशाप्रदेशाना मल्पबहुत्व विभागमाह - 'एएसि ण' मित्यादि सूत्रसिद्धं, नवरमस्यैव सूत्रोक्ताल्पबहुत्वस्य भावनार्थं गाथाप्रपञ्च वृद्धोक्तोऽभिधीयते— Jain Education International For Personal & Private Use Only ५ शतक उद्देशः ८ द्रव्य दि प्रदेश शानामल्प बहुत्वं सू २२१ ॥२४१॥ www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy