________________
ॐ सति, न च सङ्घातेन न सङ्क्षिप्तः स्कन्धो भवति, तत्र सति सूक्ष्मतरत्वेनापि तत्परिणतेः श्रवणात् , नियमात्तेषां-द्रव्याणा|मवगाहनाया नाशो भवति, कस्मादेवमित्यत उच्यते-अवगाहनाद्धा द्रव्येऽवबद्धा-नियतत्वेन संबद्वा, कथं ?, सङ्कोचाद्विकोचाच्च, सङ्कोचविकोचादि परिहत्येत्यर्थः, अवगाहना हि द्रव्ये सङ्कोचविकोचयोरभावे सति भवति तत्सद्भावे च न भवतीत्येवं द्रव्येऽवगाहनाऽनियतत्वेन संबद्धत्युच्यते, द्रुमत्वे खदिरत्वमिवेति । उक्तविपर्ययमाह-न पुनद्रव्यं सङ्कोचविकोचमात्रे सत्यप्यवगाहनायां नियतत्वेन संबद्धं, सङ्कोचविकोचाभ्यामवगाहनानिवृत्तावपि द्रव्यं न निवर्तत इत्यवगाहनायां तन्नियतत्वेनासंबद्धमित्युच्यते, खदिरत्वे दुमत्ववदिति । अथ निगमनम् । अथ भावायुर्बहुत्वं भाव्यते-सङ्घातादिना द्रव्योपरमेऽपि पर्यवाः सन्ति, यथा मृष्टपटे शुक्लादिगुणाः, सकलगुणोपरमे तु न तद्रव्यं न चावगाहनाऽनुवर्तते, अनेन पर्यवाणां चिरं स्थानं द्रव्यस्य त्वचिरमित्युक्तम्, अथ कस्मादेवमिति ?, उच्यते-सङ्घातभेदलक्षणाभ्यां धर्माभ्यां यो बन्धः-सम्बन्धस्तदनुवर्तिनी-तदनुसारिणी, सङ्घाताद्यभाव एव द्रव्याद्धायाः सद्भावात्तद्भावे चाभावात्, न पुनर्गुणकालः सङ्घातभेदमात्रकालसंबद्धः, सङ्घातादिभावेऽपि गुणानामनुवर्त्तनादिति । अथ निगमनम्-'द्रव्यविशेषः' द्रव्य| परिणामः। ॥ अनन्तरमायुरुक्तम् , अथायुष्मत आरम्भादिना चतुर्विंशतिदण्डकेन प्ररूपयन्नाह
नेरइया णं भंते । किं सारंभा सपरिग्गहा उदाहु अणारंभा अपरिग्गहा ?, गोयमा ! नेरइया सारंभा सपरिग्गहा नो अणारंभा णो अपरिग्गहा । से केणटेणं जाव अपरिग्गहा ?, गोयमा ! नेरइया णं पुढविकायं समारंभंति जाव तसकायं समारंभंति सरीरा परिग्गहिया भवंति कम्मा परिग्गहिया भवंति सचित्ता
CAMSAROSAGESCAMSANSARGCROCOCCAM
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org