SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः १ ॥२३१॥ कलङ्कितां 'विपुलां' शरीरव्यापिकां 'प्रगाढां' प्रकर्षवतीं 'कर्कश' कर्कशद्रव्योपमामनिष्टामित्यर्थः, एवं कटुकां परुषां निष्ठुरां चेति 'चण्डां' रौद्रां 'तीत्रां' झगिति शरीरव्यापिकां 'दुःखाम्' असुखरूपां 'दुर्गा' दुःखाश्रयणीयाम्, अत एव दुर| धिसह्यामिति ॥ इयं च वेदना ज्ञानाद्याराधनाविरहेण भवतीत्याराधनाऽभावं दर्शयितुमाह - 'आहाकम्मे 'त्यादि, 'अणवज्जे'त्ति 'अनवद्य' मिति निर्दोषमिति 'मणं पहारेत्त'त्ति मानसं 'प्रधारयिता' स्थापयिता भवति, 'रइयगं ति मोदकचू| र्णादि पुनमदकादितया रचितमौदेशिक भेदरूपं 'कंतारभत्तं' ति कान्तारम् - अरण्यं तत्र भिक्षुकाणां निर्वाहार्थं यद्विहितं भक्तं तत्कान्तारभक्तं, एवमन्यान्यपि, नवरं वार्दलिका - मेघदुर्दिनं, 'गिलाणभत्तं 'ति ग्लानस्य नीरोगतार्थं भिक्षुकदानाय यत्कृतं भक्तं तद् ग्लानभक्तं, आधाकर्मादीनां सदोषत्वेनागमेऽभिहितानां निर्दोषताकल्पनं तत एव स्वयं भोजनमन्यसाधुभ्योऽनुप्रदानं सभायां निर्दोषताभणनं च विपरीतश्रद्धानादिरूपत्वान्मिथ्यात्वादि, ततश्च ज्ञानादीनां विराधना स्फुटैवेति ॥ आधाकर्म्मादींश्च पदार्थानाचार्यादयः सभायां प्रायः प्रज्ञापयन्तीत्याचार्यादीन् फलतो दर्शयन्नाह - आयरियउवज्झाए णं भंते ! सविसयंसि गणं अगिलाए संगिण्हमाणे अगिलाए उवगिण्हमाणे कतिहिं भवग्गहणेहिं सिज्झति जाव अंतं करेति ?, गोयमा ! अत्थेगतिए तेणेव भवग्गहणेणं सिज्झति अत्थेगतिए दोचेणं भवग्गहणेणं सिज्झति तच्चं पुण भवग्गहणं णातिक्कमति ॥ ( सूत्रं २१९ ) ॥ जेणं भंते ! परं अलिएणं असम्भूतेणं अभक्खाणेणं अन्भक्खाति तस्स णं कहप्पगारा कम्मा कजंति ?, गोयमा ! जे णं परं अलि| एणं असंतवयणेणं अभक्खाणेणं अभक्खाति तस्स णं तहप्पगारा चेव कम्मा कजंति, जत्थेव णं अभि Jain Education International For Personal & Private Use Only ५ शतके उद्देशः ६ आचार्यत्वा तू सिद्धिः अभ्याख्यानफलं च सू २११२१२ ॥२३१॥ www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy