________________
प्राणातिपातादिकमुक्तमेव प्रवचने, दानाधिकारे श्रूयते-द्विविधाः श्रमणोपासकाः-संविग्नभाविता लुब्धकदृष्टान्तभाविताश्च । भवन्ति, यथोक्तम्-“संविग्गभावियाणं लोद्धयदिहतभावियाणं च । मोत्तण खेत्तकाले भावं च कहिंति सुद्धंछं ॥१॥" | तत्र लुब्धकदृष्टान्तभाविता आगमार्थानभिज्ञत्वाद्यथाकथञ्चिद्ददति, संविग्नभावितास्त्वागमज्ञत्वात्साधुसंयमबाधापरिहारि
त्वात्तदुपष्टम्भकत्वाच्चौचित्येन, आगमश्चैवम्-“संथरणमि असुद्धं दोण्हवि गेहंतदितयाणऽहियं । आउरदिहतेणं तं चेव | हियं असंथरणे ॥१॥" तथा-"नायागयाणं कप्पणिज्जाणं अन्नपाणाईणं दवाण" मित्यादि, अथवेहापासुकदानमल्पायु| कतायां मुख्य कारणं, इतरे तु सहकारिकारणे इति व्याख्येयं, प्राणातिपातनमृषावादनयोर्दानविशेषणत्वात् , तथाहि-8 प्राणानतिपात्याधाकर्मादिकरणतो मृषोक्त्वा यथा भोः साधो! स्वार्थमिदं सिद्धं भक्तादि कल्पनीयं चातो नानेषणीयमिति | शङ्का कार्येति, ततः प्रतिलभ्य तथा कर्म कुर्वन्तीति प्रक्रम इति, गम्भीरार्थ चेदं सूत्रमतोऽन्यथाऽपि यथाऽऽगमं भावनीय| मिति ॥ अथ दीर्घायुष्कताकारणान्याह-कहन्न'मित्यादि, भवति हि जीवदयादिमतो दीर्घमायुर्यतोऽत्रापि तथैव भवन्ति दीर्घायुषं दृष्ट्वा वक्तारो-जीवदयादि पूर्वकृतमनेन तेनायं दीर्घायुः संवृत्तः, तथा सिद्धमेव वधादिविरतेर्दीघमायुस्तस्य देवगतिहेतुत्वात् , आह च-"अणुबयमहत्वएहि य बालतवोऽकामनिजराए य । देवाउयं निबंधइ सम्मद्दिही य जो जीवो ॥१॥"
१ क्षेत्रकालौ भावं च मुक्त्वा संविग्नभावितानां लुब्धकदृष्टान्तभावितानां च शुद्धोञ्छं कथयन्ति ॥१॥ २ निर्वाहे अशुद्धं ददद्गृह्यतोर्द्वयोरप्यहितं, तदेवानिर्वाहे ग्लानदृष्टान्तेन हितम् ॥ ३-न्यायागतानां कल्पनीयानामन्नपानादीनां द्रव्याणाम् ॥ ४-अणुव्रतैर्महावतैर्बा| लतपसाऽकामनिर्जरया च देवायुर्निबध्नाति यश्च सम्यग्दृष्टिीवः ॥ १ ॥
Education in
For Personal & Private Use Only
wnew.jainelibrary.org