________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥२२६॥
च
ग्राह्या, यतः किल जिनागमाभिसंस्कृतमतयो मुनयः प्रथमवयसं भोगिनं कश्चन मृतं दृष्ट्वा वक्तारो भवन्ति - नूनमनेन भवान्तरे किञ्चिदशुभं प्राणिघातादि वा सेवितमकल्प्यं वा मुनिभ्यो दत्तं येनायं भोग्यप्यल्पायुः संवृत्त इति, अन्ये त्वाहुः - | यो जीवो जिनसाधुगुणपक्षपातितया तत्पूजार्थं पृथिव्याद्यारम्भेण स्वभाण्डासत्योत्कर्षणादिनाऽऽधाकर्मादिकरणेन | प्राणातिपातादिषु वर्त्तते तस्य वधादिविरतिनिरवद्यदाननिमित्तायुष्कापेक्षयेयमल्पायुष्कताऽवसेया, अथ नैवं निर्विशेपणत्वात्सूत्रस्य, अल्पायुष्कत्वस्य च क्षुल्लकभवग्रहणरूपस्यापि प्राणातिपातादिहेतुतो युज्यमानत्वाद् अतः कथमभिधीयते | सविशेषणप्राणातिपातादिवर्त्ती जीव आपेक्षिकी चाल्पायुष्कता इति ?, उच्यते, अविशेषणत्वेऽपि सूत्रस्य प्राणातिपाता| देर्विशेषणमवश्यं वाच्यं यत इतस्तृतीयसूत्रे प्राणातिपातादित एवाशुभदीर्घायुष्कता वक्ष्यति, न हि सामान्य हेतौ कार्य - वैषम्यं युज्यते, सर्वत्रानाश्वासप्रसङ्गात्, तथा 'समणोवासयस्स णं भंते ! तहारूवं समणं वा माहणं वा अफासुएणं २ | असणं ४ पडिला भेमाणस्स किं कज्जइ ?, गोयमा ! बहुतरिया निज्जरा कज्जइ अप्पतरे से पावे कम्मे कज्जइ'त्ति वक्ष्यमाण| वचनादवसीयते नैवेयं क्षुल्लकभवग्रहणरूपाऽल्पायुष्कता, न हि स्वल्पपापबहुनिर्जरानिबन्धनस्यानुष्ठानस्य क्षुल्लकभवग्रहणनिमित्तता संभाव्यते, जिनपूजाद्यनुष्ठानस्यापि तथाप्रसङ्गात्, नन्वेवं धर्मार्थ प्राणातिपातमृषावादाप्रासुकदानं च कर्त्तव्यमापन्नमिति, अत्रोच्यते, आपद्यतां नाम भूमिकापेक्षया को दोषः ?, यतो यतिधर्माशक्तस्य गृहस्थस्य द्रव्यस्तवद्वारेण १-श्रमणोपासकेन भदन्त ! तथारूपं श्रमणं वा प्रासुकेनानेषणीयेनाशनादिना प्रतिलाभयित्वा किं क्रियते ?, गौतम ! बहुतरा निर्जरा क्रियते अल्पतरं च पापं कर्म तेन क्रियते ॥
Jain Education International
For Personal & Private Use Only
५ शतके उद्देशः ६ अल्पदीर्घशुभायूंषि
सू २०३
॥२२६॥
www.jainelibrary.org