SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥२१८॥ 66 'हरी' त्यादि, इह च यद्यपि महावीरसंविधानाभिधायकं पदं न दृश्यते तथाऽपि हरिनैगमेषीति वचनात्तदेवानुमीयते, हरिनैगमेषिणा भगवतो गर्भान्तरे नयनात्, यदि पुनः सामान्यतो गर्भहरणविवक्षाऽभविष्यत्तदा 'देवे णं भंते !' इत्यवक्ष्यदिति, तत्र हरिः- इन्द्रस्तत्सम्बन्धित्वात् हरिनैगमेषीति नाम, 'सक्कदूए' त्ति शक्रदूतः शक्रादेशकारी पदात्यनीकाधि| पतिर्येन शक्रादेशाद्भगवान् महावीरो देवानन्दागर्भा त्रिशलागर्भे संहृत इति, 'इत्थीगन्भं'ति स्त्रियाः सम्बन्धी गर्भः| सजीवपुद्गलपिण्डकः स्त्रीगर्भस्तं 'संहरेमाणे 'ति अन्यत्र नयन् इह चतुर्भङ्गिका, तत्र 'गर्भाद्' गर्भाशयादवधेः 'गर्भ' गर्भाशयान्तरं 'संहरति' प्रवेशयति 'गर्भ' सजीवपुद्गलपिण्डलक्षणमिति प्रकृतमित्येकः १, तथा गर्भादवधेः 'योनिं' गर्भनिर्गमद्वारं संहरति योन्योदरान्तरं प्रवेशयतीत्यर्थः २, तथा 'योनीतो' योनिद्वारेण गर्भ संहरति गर्भाशयं प्रवेशयतीत्यर्थः ३, तथा ' योनीतः' योनेः सकाशाद्योनिं 'संहरति' नयति योन्योदरान्निष्काश्य योनिद्वारेणैवोदरान्तरं प्रवेशयतीत्यर्थः ४, एतेषु शेषनिषेधेन तृतीयमनुजानन्नाह - 'परामुसिए'त्यादि, 'परामृश्य २' तथाविधकरणव्यापारेण संस्पृश्य २ स्त्रीगर्भम् 'अव्याबाधमव्याबाधेन' सुखं सुखेनेत्यर्थः 'योनीतः' योनिद्वारेण निष्काश्य 'गर्भ' गर्भाशयं 'संहरति' गर्भमिति प्रकृतं, | यच्चेह योनीतो निर्गमनं स्त्रीगर्भस्योक्तं तल्लोकव्यवहारानुवर्त्तनात्, तथाहि - निष्पन्नोऽनिष्पन्नो वा गर्भः स्वभावाद्योन्यैव निर्ग|च्छतीति ॥ अयं च तस्य गर्भसंहरणे आचार उक्तः, अथ तत्सामर्थ्यं दर्शयन्नाह - 'पभू ण 'मित्यादि, 'नहसिरंसि 'ति | नखाग्रे 'साहरित्तए 'त्ति संहर्त्ती - प्रवेशयितुं 'नीहरित 'त्ति विभक्तिपरिणामेन नखशिरसो रोमकूपाद्वा 'निहतु' निष्का| शयितुम् 'आवा'ति ईषद्वाधां 'विवाह'ति विशिष्टबाधां 'छविच्छेदं'ति शरीरच्छेदं पुनः कुर्यात्, गर्भस्य हि छवि - Jain Education International For Personal & Private Use Only ५ शतके उद्देशः ४ हरिर्नंग मै पीगर्भसं क्रामक: सू १८७ ॥२१८॥ www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy