________________
च पृथिव्यादीनां हासः प्राग्भविकतत्परिणामादवसेय इति, 'पोहत्तिएहिं ति पृथक्त्वसूत्रेषु-बहुवचनसूत्रेषु 'जीवा गं भंते ! हसमाणा वा उस्सुयमाणा वा कइ कम्मपयडीओ बंधंति ?, गोयमा ! सत्तविहबंधगावि अट्ठविहबंधगावि' इत्यादिषु | 'जीवेगिदिए'त्यादि जीवपदमेकेन्द्रियपदानि च पृथिव्यादीनि वर्जयित्वाऽन्येष्वेकोनविंशतौ नारकादिपदेषु 'त्रिकभङ्गः। | भङ्गत्रयं वाच्यं, यतो जीवपदे पृथिव्यादिपदेषु च बहुत्वाज्जीवानां सप्तविधबन्धकाश्चाष्टविधबन्धकाश्चेत्येवमेक एव भङ्गको लभ्यते, नारकादिषु तु त्रयं, तथाहि-सर्व एव सप्तविधबन्धकाः स्युरित्येकः १, अथवा सप्तविधबन्धकाश्चाष्टविधबन्धक|श्चेत्येवं द्वितीयः २, अथवा सप्तविधबन्धकाश्चाष्टविधबन्धकाश्चेत्येवं तृतीयः ३ इति । अत्रैव छद्मस्थकेवल्यधिकारे इदम-18 परमाह-छउमत्थे' त्यादि, 'णिदाएज वत्ति निद्रां-सुखप्रतिबोधलक्षणां कुर्यात् निद्रायेत 'पयलाएज्ज वत्ति प्रचलाम्-अर्द्धस्थितनिद्राकरणलक्षणां कुर्यात् प्रचलायेत् ॥ केवल्यधिकारात्केवलिनो महावीरस्य संविधानकमाश्रित्येदमाह| हरी णं भंते ! हरिणेगमेसी सक्कदूए इत्थीगभं संहरणमाणे किं गम्भाओ गम्भं साहरइ १ गम्भाओ। जोणिं साहरइ २ जोणीओ गम्भं साहरइ ३ जोणीओ जोणिं साहरइ ४१, गोयमा ! नो गम्भाओ गम्भं । साहरइ नो गम्भाओ जोणिं साहरइ नो जोणीओ जोणिं साहरइ परामुसिय २ अव्वाबाहेणं अव्वाबाहं| जोणीओ गम्भं साहरइ ॥ पभू णं भंते ! हरिणेगमेसी सकस्स णं दूए इत्थीगभं नहसिरंसि वा रोमकूवंसि वा साहरित्तए वा नीहरित्तए वा ?, हंता पभू, नो चेव णं तस्स गन्भस्स किंचिवि आवाहं वा विवाहं वा| उप्पाएजा छविच्छेदं पुण करेजा, एसुहुमं च णं साहरिज वा नीहरिज वा ॥ (सूत्रं १८७)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org