________________
लघुपटहो वा तदन्यस्तु पटह इति 'भंभ'त्ति ढक्का 'होरंभ'ति रूढिगम्या 'भेरि'त्ति महाठका 'झल्लरि' त्ति वलयाकारो वाद्यविशेषः 'दुंदुहि 'त्ति देववाद्यविशेषः, अथोक्तानुक्तसङ्ग्रहद्वारेणाह - 'तताणि वे'त्यादि, 'ततानि' वीणादिवाद्यानि तज्जनितशब्दा अपि तताः, एवमन्यदपि पदत्रयं, नवरमयं विशेषस्ततादीनाम् - "ततं वीणादिकं ज्ञेयं, विततं पटहादिकम् । घनं तु कांश्यतालादि, वंशादि शुषिरं मतम् ॥ १ ॥” इति । 'पुट्ठाई सुणेइ' इत्यादि तु प्रथमशते आहाराधिकारवदवसेयंमिति । 'आरगयाई' ति आराद्भागस्थितानिन्द्रियगोचरमागतानित्यर्थः 'पारगयाई' ति इन्द्रियविषयात्परतोऽवस्थितानिति, 'सव्वदूर मूलमणंतियं'ति सर्वथा दूरं विप्रकृष्टं मूलं च निकटं सर्वदूरमूलं तद्योगाच्छन्दोऽपि सर्वदूर मूलोऽतस्तम् | अत्यर्थं दूरवर्त्तिनमत्यन्तासन्नं चेत्यर्थः अन्तिकम् - आसन्नं तन्निषेधादनन्तिकम्, नञोऽल्पार्थत्वान्नात्यन्तमन्तिकमदूरासन्नमित्यर्थः, तद्योगाच्छन्दोऽप्यनन्तिकोऽतस्तम्, अथवा 'सव्व'त्ति अनेन 'सबओ समंता' इत्युपलक्षितं, 'दूरमूलं 'ति अनादिकमितिहृदयम्, 'अणंतियं'ति अनन्तिकमित्यर्थः, 'मियंपि'त्ति परिमाणवद् गर्भजमनुष्यजीवद्रव्या [ दीत्या ] दि, 'अभियंपित्ति अनन्तमसङ्ख्येयं वा वनस्पतिपृथिवी जीवद्रव्यादि 'सव्वं जाणइ' इत्यादि द्रव्याद्यपेक्षयोक्तम् । अथ कस्मात् सर्व जानाति केवलीत्याद्युच्यते ? इत्यत आह- 'अनंते' इत्यादि, अनन्तं ज्ञानमनन्तार्थविषयत्वात्, तथा 'निव्वुडे नाणे केवलिस्स'त्ति 'निर्वृतं' निरावरणं ज्ञानं केवलिनः क्षायिकत्वात् शुद्धमित्यर्थः, वाचनान्तरे तु 'निबुडे वितिमिरे विसुद्धे' त्ति विशेषणत्रयं ज्ञानदर्शनयोरभिधीयते, तत्र च 'निर्वृतं' निष्ठागतं 'वितिमिरं' क्षीणावरणमत एव विशुद्धमिति ॥ अथ पुनरपि छद्मस्थ मनुष्यमेवाश्रित्याह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org