________________
स्थापितैर्ग्रन्थिभिः सह ग्रथिता अनन्तरग्रथिता, एवं परम्परैः-व्यवहितैः सह ग्रथिता परम्परग्रथिता, किमुक्तं भवति ?'अन्नमन्नगढिय'त्ति अन्योऽन्य-परस्परेण एकेन ग्रन्थिना सहान्यो ग्रन्थिरन्येन च सहान्य इत्येवं ग्रथिता अन्योऽन्यग्र-1 |थिता, एवं च 'अन्नमन्नगरुयत्ताए'त्ति अन्योऽन्येन ग्रन्थनाद् गुरुकता-विस्तीर्णता अन्योऽन्यगुरुकता तया, 'अन्नमनभारियत्ताए'त्ति अन्योऽन्यस्य यो भारः स विद्यते यत्र तदन्योऽन्यभारिक तद्भावस्तत्ता तया, एतस्यैव प्रत्येकोक्तार्थद्वयस्य संयोजनेन तयोरेव प्रकर्षमभिधातुमाह-'अन्नमन्नगुरुयसंभारियत्ताए'त्ति अन्योऽन्येन गुरुकं यत्सम्भारिक |च तत्तथा तद्भावस्तत्ता तया, 'अन्नमन्नघडताए'त्ति अन्योऽन्यं घटा-समुदायरचना यत्र तदन्योऽन्यघटं तद्भावस्तत्ता |तया 'चिट्ठइ'त्ति आस्ते, इति दृष्टान्तोऽथ दार्शन्तिक उच्यते-एवामेव'त्ति अनेनैव न्यायेन बहूनां जीवानां सम्बन्धीनि 'बहूसु आजाइसहस्सेसु'त्ति अनेकेषु देवादिजन्मसु प्रतिजीवं क्रमप्रवृत्तेष्वधिकरणभूतेषु बहून्यायुष्कसहस्राणि | तत्स्वामिजीवानामाजातीनां च बहुशतसहस्रसङ्ख्यत्वात् , आनुपूर्वीग्रथितानीत्यादि पूर्ववव्याख्येयं नवरमिह भारिकत्वं कर्मपुद्गलापेक्षया वाच्यम् ॥ अथैतेषामायुषां को वेदनविधिः ? इत्याह-'एगेऽवियेत्यादि, एकोऽपि च जीव आस्तामनेकः, एकेन समयेनेत्यादि प्रथमशतकवत् , अत्रोत्तरं-'जे ते एवमाहंसु'इत्यादि, मिथ्यात्वं चैषामेवम्-यानि हि बहूनां जीवानां बहून्यायूंषि जालग्रन्थिकावत्तिष्ठन्ति तानि यथावं जीवप्रदेशेषु संबद्धानि स्युरसंबद्धानि वा?, यदि संबद्धानि | || तदा कथं भिन्नभिन्नजीवस्थितानां तेषां जालग्रन्थिकाकल्पना कल्पयितुं शक्या ?, तथाऽपि तत्कल्पने जीवानामपि जाल-16 ग्रन्थिकाकल्पत्वं स्यात्तत्संबद्धत्वात् , तथा च सर्वजीवानां सर्वायुःसंवेदनेन सर्वभवभवनप्रसङ्ग इति, अथ जीवानामसंब
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org