________________
शते षट्चदशभागा योजनस्य ६३२४५६, सर्वलघौ च दिवसे तापक्षेत्रमनन्तरोतरात्रिक्षेत्रतुल्यं रात्रिक्षेत्रं त्वनन्तरोक्ततापक्षेत्रतुल्यमिति, आयामतस्तु तापक्षेत्रं जम्बूद्वीपमध्ये पञ्चचत्वारिंशद्योजनानां सहस्राणीति, लवणे च त्रयस्त्रिंशत्सहस्राणि |त्रीणि शतानि त्रयस्त्रिंशदधिकानि त्रिभागश्च योजनस्य ३३३३३, उभयमीलने त्वष्टसप्ततिःसहस्राणि त्रीणि शतानि त्रयस्त्रिंशदधिकानि योजनत्रिभागश्चेति ७८३३३ । 'उक्कोसए अट्ठारसमुहुत्ते दिवसे भवई'त्ति इह किल सूर्यस्य चतुरशीत्यधिक मण्डलशतं भवति, तत्र किल जम्बूद्वीपमध्ये पञ्चषष्टिमण्डलानि भवन्ति, एकोनविंशत्यधिकं च तेषां शतं लवणसमुद्रस्य मध्ये भवति, तत्र च सर्वाभ्यन्तरे मण्डले यदा वर्तते सूर्यस्तदाऽष्टादशमुहूर्तो दिवसो भवति, कथम् ?, यदा सर्वबाह्ये मण्डले वर्त्ततेऽसौ तदा सर्वजघन्यो द्वादशमुहूर्तो दिवसो भवति, ततश्च द्वितीयमण्डलादारभ्य प्रतिमण्डलं द्वाभ्यां मुहूत्र्तेकषष्टिभागाभ्यां दिनस्य वृद्धौ व्यशीत्यधिकशततमे मण्डले षड् मुहूर्ता वर्द्धन्त इत्येवमष्टादशमुहूत्र्तो दिवसो भवति, अत एव द्वादशमुहूर्त्ता रात्रिर्भवति, त्रिंशन्मुहूर्तत्वादहोरात्रस्य । 'अट्ठारसमुहुत्ताणंतरे'त्ति यदा सर्वाभ्यन्तरमण्डलानन्तरे मण्डले वर्त्तते सूर्यस्तदा मुहूत्र्तकपष्टिभागद्वयहीनाष्टादशमुहूर्तो दिवसो भवति, स चाष्टादशमुहूर्त्तादिवसादनन्तरोऽष्टादशमुहूर्तानन्तरमिति व्यपदिष्टः, 'सातिरेगा दुवालसमुहत्ता राईत्ति द्वाभ्यां मुहूत्तकषष्टिभागाभ्यामधिका द्वादशमुहूर्ता 'राई भवइ'त्ति रात्रिप्रमाणं भवतीत्यर्थः, यावता भागेन दिन हीयते तावता रात्रिर्वद्धते, त्रिंशन्मुहूर्त्तत्वादहोरात्रस्येति ॥ |'एवं एएणं कमेणं' एवमित्युपसंहारे 'एतेन' अनन्तरोक्तेन 'जया णं भंते ! जंबूहीवे २ दाहिणड्डे' इत्यनेनेत्यर्थः, 'ओसारेयवं'ति दिनमानं इस्वीकार्य, तदेव दर्शयति-सत्तरसे त्यादि, तत्र सर्वाभ्यन्तरमण्डलानन्तरमण्डलादारभ्यकत्रिंशत्तम
Jain Education H
all
For Personal & Private Use Only
M
ainelibrary.org