SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ नवमः९'चंपाचंदिमा यत्ति चम्पायां नगर्या च चन्द्रमसो वक्तव्यतार्थो दशमः १०॥ तत्र प्रथमोद्देशके किञ्चिलिख्यते'सूरिय'त्ति द्वौ सूर्यो, जम्बूद्वीपे द्वयोरेव भावात् 'उदीणपाईणं'ति उदगेव उदीचीनं प्रागेव प्राचीनं उदीचीनं च तदुदीच्या आसन्नत्वात् प्राचीनं च तत्प्राच्याः प्रत्यासन्नत्वाद् उदीचीनप्राचीनं-दिगन्तरं क्षेत्रदिगपेक्षया पूर्वोत्तरदिगित्यर्थः 'उग्गच्छत्ति उद्गत्य क्रमेण तत्रोद्गमनं कृत्वेत्यर्थः 'पाईणदाहिणं ति प्राचीनदक्षिणं दिगन्तरं पूर्वदक्षिणमित्यर्थः |'आगच्छंति'त्ति आगच्छतः क्रमेणैवास्तं यात इत्यर्थः, इह चोद्गमनमस्तमयं च द्रष्टुलोकविवक्षयाऽवसेयं, तथाहि-येषामदृश्यौ सन्तौ दृश्यौ तौ स्यातां ते तयोरुद्गमनं व्यवहरन्ति येषां तु दृश्यो सन्तावदृश्यौ स्तस्ते तयोरस्तमयं व्यवहरन्तीत्यनियतावुदयास्तमयौ, आह च-"जह २ समए २ पुरओ संचरइभक्खरो गयणे । तह तह इओवि नियमा जायइ रयणीय दू भावत्थो ॥१॥ एवं च सइ नराणं उदयत्थमणाई होतऽनिययाई । सइ देसभेऍकस्सइ किंची ववदिस्सए नियमा ॥२॥ सइ चेव य निदिडो भद्दमुहुत्तो कमेण सवेसिं । केसिंचीदाणिपि य विसयपमाणे रवी जेसिं ॥३॥” इत्यादि, अनेन च सूत्रेण सूर्यस्य चतसृषु दिक्षु गतिरुक्ता, ततश्च येमन्यन्ते सूर्यः पश्चिमसमुद्रं प्रविश्य पातालेन गत्वा पुनः पूर्वसमुद्रमुदेतीत्यादि तन्मतं |निषिद्धमिति ॥ इह च सूर्यस्य सर्वतोगमनेऽपि प्रतिनियतत्वात्तत्प्रकाशस्य रात्रिदिवसविभागोऽस्तीतितं क्षेत्रभेदेन दर्शयन्नाह १ यथा यथा समये समये गगने भास्करः पुरतः संचरति तथा ततोऽपि नियमाद्वात्रिर्जायत इति भावार्थः ॥१॥ एवं च सति नराणामुदयास्तमयनावनियती भवतः । सति देशभेदे कस्यचित्किञ्चिद्वयपदिश्यते नियमात् ।।२॥ सकृच्चैव सर्वेषां क्रमेण भद्रमुहूर्तो निर्दिष्ट | इति । केषाश्चिदिदानीमपि च स येषां रविविषयप्रमाणे ॥ ३॥ . Jain Education International For Personal & Private Use Only wimmisainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy