________________
चापपाठ इति, स चैवम्-'गोयमा! नेरइए नेरइएसु उववजइ नो अणेरइए नेरइएसु उववजई' इत्यादि, अयं चास्यार्थःनैरयिको नैरयिकेषूत्पद्यते न पुनरनैरयिकः, कथं पुनरेतत् ?, उच्यते, यस्मान्नारकादिभवोपग्राहकमायुरेवातो नारकाद्यायुःप्रथमसमयसंवेदनकाल एव नारकादिव्यपदेशो भवति ऋजुसूत्रनयदर्शनेन, यत उक्तं नयविद्भिर्ऋजुसूत्रस्वरूपनिरूपणं कुर्वद्भिः-"पलालं न दहत्यनिर्भिद्यते न घटः क्वचित् ।न शून्यान्निर्गमोऽस्तीह, न च शून्यं प्रविश्यते ॥१॥ नारकव्यतिरि
तश्च, नरके नोपपद्यते । नरकान्नारकश्चास्य, न कश्चिद्विप्रमुच्यते ॥२॥" इत्यादीनि, 'जाव नाणाई'ति, अयमुद्देशको * ज्ञानाधिकारावसानोऽध्येतव्यः, स चायम्-'कण्हलेस्से-णं भंते ! जीवे कयरेसु णाणेसु होजा?, गोयमा ! दोसुवा तिसु । वा चउसु वा णाणेसु होज्जा, दोसु होजमाणे आभिणिबोहियसुयणाणेसु होजा' इत्यादि ॥ चतुर्थशते नवमः॥४-९॥3
0000000. लेश्याधिकारात्तद्वत एव दशमोद्देशकस्येदमादिसूत्रम्से नूणं भंते ! कण्हलेस्सा नीललेस्सं पप्प तारुवत्ताए तावण्णत्ताए एवं चउत्थो उद्देसओ पन्नवणाए चेव लेस्सापदे नेयव्वोजाव-परिणामवण्णरसगंधसुद्धअपसत्थसंकिलिझुण्हा। गतिपरिणामपदेसोगाहवग्गणाठाणमप्पबहुं ॥१॥सेवं भंते!२त्ति॥(सूत्रं १७५) चउत्थसए दसमो उद्देसो समत्तो॥४-१०॥ चउत्थं सयंसमत्तं ॥४॥ __'से नूण'मित्यादि, 'तारूवत्ताए'त्ति तद्रूपतया-नीललेश्यास्वभावेन, एतदेव व्यनक्ति-तावण्णत्ताए'त्ति तस्या इवनीललेश्याया इव वर्णो यस्याः सा तद्वर्णा तद्भावस्तत्ता तया तद्वर्णतया, 'एवं चउत्थो उद्देसओ' इत्यादिवचनादेवं द्रष्ट
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org