SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ | निरन्तरमेवोच्छासनिःश्वासौ दृश्येते, सततत्वं च प्रायोवृत्त्याऽपि स्यादित्यत आह-संतयामेव'त्ति सन्ततमेव नैकसमयेऽपि तद्विरहोऽस्तीति भावः, दीर्घत्वं चेह प्राकृतत्वात् , आनमन्तीत्यादेः पुनरुच्चारणं शिष्यवचने आदरोपदर्शनार्थ, गुरुभिराद्रियमाणवचना हि शिष्याः सन्तोषवन्तो भवन्ति, तथा च पौनःपुन्येन प्रश्नश्रवणार्थनिर्णयादिषु घटन्ते लोके चादेयवचना |भवन्ति, तथा च भव्योपकारस्तीर्थाभिवृद्धिश्चेति ॥ अथ तेषामेवाहारं प्रनयन्नाह–णेरइयाण'मित्यादि व्यक्तं, नवरम् |'आहारहित्ति आहारमर्थयन्ते-प्रार्थयन्त इत्येवंशीलाः अर्थो वा-प्रयोजनमेषामस्तीत्यर्थिनः,आहारेण-भोजनेनार्थिन आहा रार्थिनः,आहारस्य-भोजनस्य वाऽर्थिन आहारार्थिनः,'जहा पन्नवणाए'त्ति आहारही' इत्येतत्पदप्रभृति यथा प्रज्ञापनायाश्चतुर्थोपाङ्गस्य . पढमए'त्ति आये 'आहारउद्देसए'त्ति आहारपदस्याष्टाविंशतितमस्योद्देशकः पदशब्दलोपाच्चाहारोद्देशकः तत्र भणितं 'तहा भाणिय'ति तेन प्रकारेण वाच्यमिति। तत्र च नारकाहारवक्तव्यतायां बहूनि द्वाराणि भवन्ति, तत्सङ्ग्रहार्थ || पूर्वोक्तस्थित्युच्छ्रासलक्षणद्वारद्वयदर्शनपूर्विकां गाथामाह-ठिइगाहा' व्याख्या, स्थिति रकाणां वाच्या, उच्चासश्च, तौ चोक्तावेव । तथा 'आहार'त्ति आहारविषयो विधिर्वाच्यः, स चैवम्-'णेरइयाणं भंते ! आहारट्ठी ?, हंता आहारट्ठी || ३५ णेरइयाणं भंते ! केवइकालस्स आहारहे समुप्पज्जइ ?, 'आहारार्थः' आहारप्रयोजनमाहारार्थित्वमित्यर्थः, 'गोयमा ! णेरइयाणं दुविहे आहारे पन्नत्ते' अभ्यवहारक्रियेत्यर्थः 'तंजहा-आभोगनिवत्तिए य अणाभोगनिवत्तिए य' तत्राभोगःअभिसन्धिस्तेन निर्वर्तितः-कृत आभोगनिर्वर्त्तितः, आहारयामीतीच्छापूर्वक इत्यर्थः, अनाभोगनिवर्तितस्तु आहारयामीति विशिष्टेच्छामन्तरेणापि, प्राटुकाले प्रचुरतरप्रश्रवणाद्यभिव्यङ्ग्यशीतपुद्गलाद्याहारवत् , 'तत्थ णं जे से अणाभोगनि dain Education M ana For Personal & Private Use Only Niww.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy