________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥ १९ ॥
भाणिपव्वं ३ | ठिइ उस्सासाहारे किं वाऽऽहारैति ३६ सव्वओ वावि ३७ । कतिभागं ? ३८ सव्वाणि व ३९ कीस व भुज्जो परिणमंति ? ४० ॥ १ ॥ ( सू० ९ )
निर्गतमयम् - इष्टफलं कर्म येभ्यस्ते निरयास्तेषु भवा नैरयिका नारकास्तेषां नैरयिकाणां 'भंते 'ति भदन्त ! ' केवइकालं' | ति कियांश्चासौ कालश्चेति कियत्कालस्तं कियत्कालं यावत् 'ठिइ'त्ति आयुः कर्मवशान्नरकेऽवस्थानं 'पन्नत्त'त्ति ' प्रज्ञप्ता' प्ररू| पिता ? भगवद्भिरम्यतीर्थकरैश्चेति प्रश्नः, 'गोयमे'त्यादि निर्वचनं व्यक्तमेव, नवरं 'दस वाससहस्साई' ति प्रथमपृथिवी - | प्रथमप्रस्तटापेक्षया 'तेप्तीसं सागरोवमाई' ति सप्तम पृथिव्यपेक्षयेति, मध्यमा तु जघन्यापेक्षया समयाद्यधिका सामर्थ्यगम्येति ॥ अनन्तरं नारकाणां स्थितिरुक्ता, ते घोच्छ्रासादिमन्त इत्युच्छ्रासादिनिरूपणायाह - 'नेरइयाण' मित्यादि व्यक्तं, नवरं | केवइकालस्स' त्ति प्राकृतशैल्या कियत्कालात् कियता कालेनेत्यर्थः, 'आणमंति'त्ति आनन्ति 'अन प्राणने' इति धातुपाठात् मकारस्यागमिकत्वात्, 'पाणमंति'त्ति प्राणन्ति, वाशब्दौ समुच्चयार्थी, एतदेव पदद्वयं क्रमेणार्थतः स्पष्टयन्नाह - 'ऊससंति वा नीससंति वत्ति यदेवोकमानन्ति तदेवोक्तमुच्छ्रसन्तीति, तथा यदेवोक्तं प्राणन्ति तदेवोक्तं निःश्वसन्तीति, अथवा आनमन्ति प्राणमन्तीति 'णमुप्रहृत्वे' इत्येतस्यानेकार्थत्वेन श्वसनार्थत्वात्, अन्ये स्वाहुः - 'आनन्ति वा प्राणन्ति वा' इत्यनेनाध्यात्मक्रिया परिगृह्यते, 'उच्छ्रसन्ति वा निःश्वसन्ति वा' इत्यनेन च बाह्येति । 'जहा ऊसासपए 'त्ति, एतस्य | प्रश्नस्य निर्वचनं यथा उच्च्छासपदे प्रज्ञापनायाः सप्तमपदे तथा वाच्यं तचेदम्- 'गोयमा ! सययं संतयामेव आणमंति वा पाणमंति वा ऊससन्ति वा नीससंति वा' इति, तत्र 'सततम्' अनवरतम्, अतिदुःखिता हि ते, अतिदुःखव्याप्तस्य च
Jain Education International
For Personal & Private Use Only
१ शतके
१ उदेशके नारकाणां स्थित्यादि
सू० ९
॥ १९ ॥
ainelibrary.org