SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ dain व्या० ४ | तथा छेदभेददाहमरणनिर्जरणान्यकर्म्मार्थान्यपि व्याख्येयानि, तद्व्याख्यानं च प्रतीतमेव, भिन्नार्थता पुनरेषामेवं- कुठारा| दिना लतादिविषयश्छेदः, तोमरादिना शरीरादिविषयो भेदः, अग्निना दार्वा [ द्यर्था ]दिविषयो दाहः, मरणं तु प्राणत्याग:निर्जरा तु अतिपुराणीभवनमिति, 'विगय पक्खस्स' त्ति भिन्नार्थान्यपि सामान्यतो विनाशाभिधायकान्येतानीत्यर्थः, न च | वक्तव्यं - किमेतैश्चलनादिभिरिह निरूपितैः ?, अतत्त्वरूपत्वादेषाम् अतत्त्वरूपत्वस्यासिद्धत्वात्, तदसिद्धिश्च निश्चयन| यमतेन वस्तुस्वरूपस्य प्रज्ञापयितुमारब्धत्वात्, तथाहि - व्यवहारनयश्चलितमेव चलितमिति मन्यते, निश्चयस्तु चलदपि | चलितमिति, अत्र च बहुवक्तव्यं तच्च विशेषावश्यकादिहैवाभिधास्यमानजमालिचरिताद्वाऽवसेयमिति । इहाद्ये प्रश्नोत्त रसूत्रद्वये मोक्षतत्त्वं चिन्तितं, मोक्षः पुनर्जीवस्य जीवाश्च नारकादयश्चतुर्विंशतिविधाः, यदाह - "नेरइया १ असुराई १० पुढवाई ५ बेंदियादओ ३ चैव । पंचिंदियतिरिय १ नरा १ वंतर १ जोइसिय १ वेमाणी १ ( २४ ) ॥ १ ॥ तत्र नार| कांस्तावत् स्थित्यादिभिश्चिन्तयन्नाह नेरइयाणं भंते ! केवइकालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं दस वाससहस्साई उक्कोसेणं तेतीसं साग| रोवमाई ठिई पन्नत्ता १ । नेरइयाणं भंते ! केवइकालस्स आणमंति वा पाणमंति वा ऊससंति वा णीससंति वा ?, जहा ऊसासपए २ । नेरइया णं भंते आहारट्ठी ?, जहा पन्नचणाए पढमए आहारुद्देसए तहा १ नैरयिकाः १ असुरादयः १० पृथ्व्यादयः ५ द्वीन्द्रियादयः ३ पञ्चेन्द्रियतिर्यनरौ व्यन्तराज्योतिष्का वैमानिकाः । * विशेषा० गा - ४१४ - ४२६ पर्यन्तं ॥ For Personal & Private Use Only jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy