________________
जा उत्तरेण सोलस ताओ ईसाणलोगपालाणं । सक्करस लोगपालाण दक्खिणे सोलस हवंति ॥ २ ॥ एताश्च सोमप्रभयमप्रभवैश्रमणप्रभवरुणप्रभाभिधानानां पर्वतानां प्रत्येकं चतसृषु दिक्षु भवन्ति, तत्र वैश्रमणनगरीरादौ कृत्वाऽभिहितम् - “मज्झे होइ चउन्हें वेसमणपभो नगुत्तमो सेलो । रइकरयपवयसमो उबेहुच्चत्तविक्खंभे ॥ ३ ॥ तस्स य नगुत्तमस्स उ चउदिसिं होंति रायहाणीओ । जंबूद्दीवसमाओ विक्खंभायामओ ताओ ॥ ४ ॥ पुवेण अयलभद्दा समक्कसा रायहाणि दाहिणओ । अवरेण ऊ कुबेरा धणप्पभा उत्तरे पासे ॥ ५ ॥ एएणेव कमेणं वरुणस्सवि होंति अवरपासंमि । वरुणप्पभसेल| स्तवि चउद्दिसिं रायहाणीओ ॥ ६ ॥ पुषेण होइ वरुणा वरुणपभा दक्खिणे दिसीभाए । अवरेण होइ कुमुया उत्तरओ पुंडरगिणीया ॥ ७ ॥ एएणेव कमेणं सोमस्सवि होंति अवरपासंमि । सोमप्पभसेलस्सवि चउद्दिसिं रायहाणीओ ॥ ८ ॥
१- या उत्तरस्यां षोडश ता ईशानलोकपालानां शक्रस्य लोकपालानां दक्षिणस्मिन् पार्श्वे षोडश भवन्ति ॥ २ ॥ वैश्रमणप्रभो नगोत्तमः शैलो भवति । उद्वेधोच्चत्वविष्कम्भे रतिकरकपर्वतसमः ॥ ३ ॥ तस्य च नगोत्तमस्यैव चतसृषु दिक्षु राजधान्यो भवन्ति जम्बूद्वीपसमास्ता विष्कम्भायामतः || ४ || पूर्वस्यामचलभद्रा समुत्कर्षा दक्षिणस्यां राजधानी । अपरस्यां तु कुबेरा उत्तरपार्श्वे धनप्रभा ॥ ५ ॥ एतेनैव क्रमेण वरुणस्यापि भवन्त्यपरपार्श्वे । वरुणप्रभशैलस्यापि चतसृषु दिक्षु राजधान्यः ॥ ६ ॥ पूर्वस्यां भवति वरुणा दक्षिणदिग्भागे वरुणप्रभा । अपरस्यां भवति कुमुदा उत्तरतः पुण्डरीकिणी च ॥ ७ ॥ एतेनैव क्रमेण सोमस्यापि भवन्त्यपरपार्श्वे । सोमप्रभशैलस्यापि चतसृषु दिक्षु राजधान्यः ॥ ८ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org