SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ 359655555555 न्यायुधानि-क्षेप्यास्त्राणि प्रहरणानि च-तदितराणि यैस्ते तथा, 'त्रिनतानि' मध्यपार्श्वद्वयलक्षणे स्थानत्रयेऽवनतानि, 'त्रिसन्धितानि' त्रिषु स्थानकेषु कृतसन्धिकानि नैकाङ्गिकानीत्यर्थः, वज्रमयकोटीनि धनूंषि अभिगृह्य पदतः-पदे मुष्टि-15 स्थाने तिष्ठन्तीति सम्बन्धः, परिमात्रिकः-सर्वतो मात्रावान् काण्डकलापो येषां ते तथा, नीलपाणय इत्यादिषु नीलादिवर्णपुखत्वान्नीलादयो बाणभेदाः संभाव्यन्ते, चारुचापपाणय इत्यत्र चापं-धनुरेवानारोपितज्यमतो न पुनरुक्तता, चर्म| पाणय इत्यत्र चर्मशब्देन स्फुरक उच्यते, दण्डादयः प्रतीताः, उक्तमेवार्थ सङ्ग्रहणेनाह-नीलपीए'त्यादि, अथवा नीलादीन् सर्वानेव युगपत्केचिद्धारयन्ति देवशक्तेरिति दर्शयन्नाह-'नीलपीए'त्यादि, ते चात्मरक्षा न सज्ञामात्रेणैवेत्याह| आत्मरक्षाः स्वाम्यात्मरक्षा इत्यर्थः, त एव विशेष्यन्ते-'रक्षोपगताः' रक्षामुपगताः सततं प्रयुक्तरक्षा इत्यर्थः, एतदेव कथमित्याह-गुप्ता अभेदवृत्तयः, तथा 'गुप्तपालिकाः तदन्यतो व्यावृत्तमनोवृत्तिकाः मण्डलीकाः 'युक्ताः' परस्परसंबद्धाः 'युक्तपालिकाः' निरन्तरमण्डलीकाःप्रत्येकम्-एकैकशःसमयतः-पदातिसमाचारेण विनयतो-विनयेन किङ्करभूताइव-प्रेष्यत्वं प्राप्ता इवेति, अयं च पुस्तकान्तरे साक्षाद् दृश्यत एवेति । एवं सबेसिमिंदाणं'ति एवमिति-चमरवत् सर्वेषामिन्द्राणां | सामानिकचतुर्गुणा आत्मरक्षा वाच्याः, ते चार्थत एवं-सर्वेषामिन्द्राणां सामानिकचतुर्गुणा आत्मरक्षाः, तत्र चतुःषष्टिः सहस्राणि चमरेन्द्रस्येन्द्रसामानिकानां बलेस्तु षष्टिः शेषभवनपतीन्द्राणां प्रत्येकं षट् सहस्राणि शक्रस्य चतुरशीतिः | ईशानस्याशीतिः सनत्कुमारस्य द्विसप्ततिः माहेन्द्रस्य सप्ततिः ब्रह्मणः षष्टिः लान्तकस्य पञ्चाशत् शुक्रस्य चत्वारिंशत् Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy