________________
॥ १८४॥
दृष्टान्तद्वयमाह - ' से जहे 'त्यादि, 'तिणहत्थयं'ति तृणपूलकं 'जायतेयंसि 'त्ति वहाँ 'मसम साविज्जइ'त्ति शीघ्रं दह्यते, | इह च दृष्टान्तद्वयस्याप्युपनयार्थः सामर्थ्यगम्यो, यथा - एवमेजनादिरहितस्य शुक्लध्यान चतुर्थभेदानलेन कर्मदाह्यदहनं स्यादिति ॥ अथ निष्क्रियस्यैवान्तक्रिया भवतीति नौदृष्टान्तेनाह - 'से जहाणामए' इत्यादि, इह शब्दार्थः प्राग्वन्नवरम् या वृत्तिः १ । 'उद्दाइ'त्ति उद्याति जलस्योपरि वर्त्तते 'अत्ततासंवुडस्स' त्ति आत्मन्यात्मना संवृतस्य प्रतिसंलीनस्येत्यर्थः, एतदेव 'इरियासमियस्से' त्यादिना प्रपञ्चयति- 'आउत्तं' ति आयुक्तमुपयोगपूर्वकमित्यर्थः 'जाव चक्खुपम्हनिवायमवि'त्ति किं बहुना आयुक्तगमनादिना स्थूलक्रियाजालेनोक्तेन ? यावच्चक्षुःपक्ष्मनिपातोऽपि प्राकृतत्वाल्लिङ्गव्यत्ययः, उन्मेषनिमेषमात्रक्रियाऽप्यस्ति आस्तां गमनादिका तावदिति शेषः 'वेमाय'त्ति विविधमात्रा, अन्तर्मुहूर्त्तादेर्देशोन पूर्व कोटीपर्यन्तस्य क्रियाकालस्य विचित्रत्वात्, वृद्धाः पुनरेवमाहुः - यावता चक्षुषो निमेषोन्मेषमात्राऽपि क्रिया क्रियते तावताऽपि कालेन विमा - त्रया स्तोकमात्रयाऽपीति, क्वचिद्विमात्रेत्यस्य स्थाने 'सपेहाए'त्ति दृश्यते तत्र च 'स्वप्रेक्षया' स्वेच्छया चक्षुःपक्ष्मनिपातो न तु परकृतः 'सुम'त्ति सूक्ष्मबन्धादिकाला 'ईरियावहिय'ति ईर्यापथ-गमनमार्गस्तत्र भवा ऐर्यापथिकी केवलयो|गप्रत्ययेति भावः 'किरिये 'ति कर्म सातवेदनीयमित्यर्थः 'कज्जइ'त्ति क्रियते भवतीत्यर्थः, उपशान्तमोहक्षीणमोहसयोगि| केवलिलक्षण गुणस्थानकत्रयवतीं वीतरागोऽपि हि सक्रियत्वात्सातवेद्यं कर्म बनातीति भावः, 'से'ति ईर्यापथिकी क्रिया 'पढमसमयबद्धपुट्ट 'त्ति (प्रथमसमये बद्धा कर्मतापादनात् स्पृष्टा जीवप्रदेशैः स्पर्शनात्ततः कर्मधारये तत्पुरुषे च सति प्रथमसमयबद्धस्पृष्टा, तथा द्वितीयसमये वेदिता - अनुभूतस्वरूपा, एवं तृतीयसमये 'निर्जीर्णा' अनुभूतस्वरूपत्वेन जीवप्रदेशेभ्यः
व्याख्या
प्रज्ञप्तिः
अभयदेवी
Jain Education International
For Personal & Private Use Only
३ शतके उद्देशः ३ क्रियायामअन्तक्रिया -
भावः
सू १५३
॥ १८४॥
www.jainelibrary.org