________________
परिशाटितेति एतदेव वाक्यान्तरेणाह - सा बद्धा स्पृष्टा प्रथमे समये द्वितीये तु 'उदीरिता' उदयमुपनीता, किमुक्तं भवति ? - वेदिता, न ह्येकस्मिन् समये बन्ध उदयश्च संभवतीत्येवं व्याख्यातं तृतीये तु निर्जीर्णा, ततश्च 'सेयकाले 'त्ति एष्यत्काले 'अकम्मं वावित्ति अकर्माऽपि च भवति, इह च यद्यपि तृतीयेऽपि समये कर्माकर्म भवति तथाऽपि तत्क्षण एवातीतभाव कर्मत्वेन द्रव्य कर्मत्वात् तृतीये निर्जीर्ण कर्मेति व्यपदिश्यते, चतुर्थादिसमयेषु त्वकर्मेति, 'अन्तत्तासंवुडस्से'त्यादिना चेदमुक्त - यदि संयतोऽपि साश्रवः कर्म बनाति तदा सुतरामसंयतः, अनेन च जीवनावः कर्म्मजलपूर्यमाणत - यार्थतोऽधोनिमज्जनमुक्तं, सक्रियस्य कर्मबन्धभणनाच्चाक्रियस्य तद्विपरीतत्वात्कर्मबन्धाभाव उक्तः, तथा च जीवनावोऽनाश्रवतायामूर्द्ध्वगमनं सामर्थ्यादुपनीतमवसेयमिति । अथ यदुक्तं श्रमणानां प्रमादप्रत्यया क्रिया भवतीति, तत्र प्रमादपरत्वं तद्विपक्षत्वात्तदितरत्वं संयतस्य कालतो निरूपयन्नाह -
पत्त संजयस्स णं भंते! पमत्तसंजमे वट्टमाणस्स सव्वावि य णं पमत्तद्धा कालओ केवचिरं होइ ?, मंडियपुत्ता ! एगजीवं पडुच्च जहन्नेणं एक्कं समयं उक्कोसेणं देणा पुव्वकोडी, णाणाजीवे पडुच्च सव्वद्धा ॥ अप्पमत्त संजयस्स णं भंते ! अप्पमत्तसंजमे वट्टमाणस्स सव्वावि य णं अप्पमत्तद्धा कालओ केवच्चिरं होइ ?, मंडियपुत्ता ! एगजीवं पडुच्च जहनेणं अंतोमुहुत्तं उक्को० पु०वकोडी देसॄणा, णाणाजीवे पहुच सव्वद्धं, सेवं भंते ! २त्ति भयवं मंडियपुत्ते अणगारे समणं भगवं महावीरं वंदइ नमसह २ संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ॥ ( सूत्रं १५४ ) ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org