SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ समारंभइ'त्ति'समारभते' तानेव परितापयति, आह च-"संकप्पो संरंभो परितावकरो भवे समारंभो । आरंभो उद्दवओ सबनयाणं विसुद्धाणं ॥१॥” इदं च क्रियाक्रियावतः(तोः) कथञ्चिदभेद इत्यभिधानाय तयोः समानाधिकरणतः सूत्रमुक्तम् , अथ तयोः कथञ्चिद्भेदोऽप्यस्तीति दर्शयितुं पूर्वोक्तमेवार्थ व्यधिकरणत आह-'आरंभेइत्यादि, आरम्भे-अधिकरणभूते वर्त्तते जीवः, एवं संरम्भे समारम्भे च, अनन्तरोक्तवाक्यार्थद्वयानुवादेन प्रकृतयोजनामाह-आरम्भमाणः संरभमाणः समारभमाणो जीव इत्यनेन प्रथमो वाक्यार्थोऽनूदितः आरम्भे वर्तमान इत्यादिना तु द्वितीयः, 'दुक्खावणयाए' इत्यादौ ताशब्दस्य प्राकृतप्रभवत्वात् 'दुःखापनायां' मरणलक्षणदुःखप्रापणायाम् अथवा इष्टवियोगादि|दुःखहेतुप्रापणायां वर्तत इति योगः, तथा 'शोकापनायां' दैन्यप्रापणायां 'जूरावणताए'त्ति शोकातिरेकाच्छरीरजीर्णताप्रापणायां तिप्पावणयाए'त्ति 'तेपापनायो' 'तिपृष्टेष क्षरणार्थों' इतिवचनात् शोकातिरेकादेवाश्रुलालादिक्षरणप्रापणायां 'पिट्टावणताए'त्ति पिट्टनप्रापणायां ततश्च परितापनायां शरीरसन्तापे वर्तते, क्वचित्पठ्यते 'दुक्खावणयाए'इत्यादि, तच्च व्यक्तमेव, यच्च तत्र 'किलामणयाए उद्दावणयाए' इत्यधिकमभिधीयते तत्र 'किलामणयाए'त्ति ग्लानिनयने 'उद्दावणयाए'त्ति उत्रासने ।। उक्तार्थविपर्ययमाह 'जीवे ण'मित्यादि, 'णो एयइत्ति शैलेशीकरणे योगनिरोधान्नो एजत इति, एजनादिरहितस्तु नारम्भादिषु वर्तते तथा च न प्राणादीनां दुःखापनादिषु तथाऽपि च योगनिरोधाभिधानशुक्लध्यानेन सकलकर्मध्वंसरूपाऽन्तक्रिया भवति तत्र १ संकल्पो (मनसो) विचारः संरम्भः परितापकरो भवेत्समारम्भः । अपद्रावयत आरम्भः सर्वेषां विशुद्धनयानाम् ॥ १ ॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy