________________
इयमविरतस्य भवति, 'दुप्पउत्तकायकिरिया यत्ति दुष्टं प्रयुक्तो दुष्पयुक्तः स चासौ कायश्च दुष्प्रयुक्तकायस्तस्य क्रिया दुष्प्रयुक्तकायक्रिया, अथवा दुष्टं प्रयुक्तं-प्रयोगो यस्य स दुष्प्रयुक्तस्तस्य कायक्रिया दुष्प्रयुक्तकायक्रिया, इयं प्रमत्तसंयतस्यापि भवति, विरतिमतः प्रमादे सति कायदुष्टप्रयोगस्य सद्भावात् , 'संजोयणाहिगरणकिरिया य'त्ति संयोजनहलगरविषकूटयन्त्राद्यङ्गानां पूर्वनिर्वतितानां मीलनं तदेवाधिकरणक्रिया संयोजनाधिकरणक्रिया, 'निव्वत्तणाहिगरणकिरिया य'त्ति, निवर्त्तनं-असिशक्तितोमरादीनां निष्पादनं तदेवाधिकरणक्रिया निवर्तनाधिकरणक्रिया, 'जीवपाओसिया यत्ति जीवस्य-आत्मपरतदुभयरूपस्योपरि प्रद्वेषाद् या क्रिया प्रद्वेषकरणमेव वा, 'अजीवपाउसिया य'त्ति अजीवस्योपरि प्रद्वेषाद्या क्रिया प्रद्वेषकरणमेव वा, 'सहत्थपारितावणिया य'त्ति स्वहस्तेन स्वस्य परस्य तदुभयस्य वा परितापनाद्-असातोदीरणाद्या क्रिया परितापनाकरणमेव वा सा स्वहस्तपारितापनिकी, एवं परहस्तपारितापनिक्यपि, एवं प्राणातिपातक्रियाऽपि ॥ उक्ता क्रिया, अथ तज्जन्यं कर्म तद्वेदनां चाधिकृत्याह
पुटिव भंते ! किरिया पच्छा वेदणा पुचि वेदणा पच्छा किरिया ?, मंडियपुत्ता ! पुर्वि किरिया पच्छा वेदणा, णो पुट्विं वेदणा पच्छा किरिया ॥ (सूत्रं१५१) अस्थि णं भंते ! समणाणं निग्गंथाणं किरिया कजइ, ४ हंता ! अत्थि । कहं णं भंते ! समणाणं निग्गंथाणं किरिया कन्जइ ?, मंडियपुत्ता ! पमायपच्चया जोगनिमित्तं । &च, एवं खलु समणाणं निग्गंथाणं किरिया कजति ॥ (सूत्रं १५२)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org