________________
गतित्वात्तस्य, तच्च किल कल्पनया त्रिभागन्यून गव्यूतत्रयं, तिरियं संखेजे भागे'त्ति तस्मिन्नेव पूर्वोक्त त्रिभागन्यूनगव्यूतत्रये द्विगुणिते ये योजनस्य सङ्ख्येया भागा भवन्ति तान् गच्छति, तिर्यग्गतौ शीघ्रतरगतित्वात्तस्य, 'अहे संखेजे भागे गच्छइ'त्ति पूर्वोक्ते त्रिभागद्वयन्यूने गव्यूतषट्के त्रिभागन्यूनगव्यूतत्रये मीलिते ये सवेयभागा भवन्ति तान् गच्छति, योजनद्धयमित्यर्थः । अथ कथं सङ्ख्यातभागमात्रोपादाने नियतसङ्ख्येयभागत्वं व्याख्यायते !, उच्यते, शक्रस्योर्द्धगतेश्चम|रस्य चाधोगतेः समत्वमुक्तं, शक्रस्य चोर्द्धगमनं समयेन योजनद्वयरूपं कल्पितमतश्चमरस्याधोगमनं समयेन योजनद्वयमुक्तं, तथा 'जावइयं सक्के ३ उडे उप्पयइ एगेणं समएणं तं वजं दोहिं जं वजं दोहिं तं चमरे तिहिति वचनसामर्थ्यात् प्रतीयते शक्रस्य यदूर्द्ध गतिक्षेत्रं तस्य त्रिभागमात्ररूपं चमरस्योद्धगतिक्षेत्रमतो व्याख्यातं त्रिभागन्यूनत्रिगव्यूतमानं तदिति, ऊर्द्धक्षेत्राधोगतिक्षेत्रयोश्चापान्तरालवर्ति तिर्यक्षेत्रमितिकृत्वा त्रिभागद्वयन्यूनषड्गव्यूतमानं तद्व्याख्यातमिति, यच्च चर्णिकारेणोक्तं 'चमरो उहूं जोयण'मित्यादि तन्नावगतं, 'वजं जहा सक्कस्स तहेव'त्ति वज्रमाश्रित्य गतिविषयस्याल्प-|| बहुत्वं वाच्यं यथा शक्रस्य तथैव, विशेषद्योतनार्थ त्वाह-'नवरं विसेसाहियं कायव्वं'ति,तच्चैवम्-'वजस्स णं भंते ! उहुं अहे तिरियं च गइविसयस्स कयरे कयरेहितो अप्पे वा ४१, गोयमा ! सबथोवं खेत्तं वजे अहे ओवयइ एक्केणं समएणं तिरिय विसेसाहिए भागे गच्छइ उ8 विसेसाहिए भागे गच्छईत्ति, वाचनान्तरे तु एतत्साक्षादेवोक्तमिति, अस्यायमर्थः& सर्वस्तोक क्षेत्रं वज्रमधो व्रजत्येकेन समयेन, अधोमन्दगतित्वात्तस्य वज्रस्य, तच्च किल कल्पनया त्रिभागन्यून योजनं, तिर्यक् ।
तच्च विशेषाधिको भागौ गच्छति, शीघ्रतरगतित्वात् , तौ च किल योजनस्य द्वौ त्रिभागौ विशेषाधिको सत्रिभाग गव्यू
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org