________________
व्याख्याप्रज्ञप्तिः अभयदेवी- या वृत्तिः
३ शतके उद्देशः २ चमरस्य वी रचरणयो
रागमः सू१४५
॥१७५॥
ASRAESCASHAS545455
दीप्यमानं यत्तत्तथा 'जइणवेग'ति जयी शेषवेगवद्वेगजयी वेगो यस्य तत्तथा 'महन्भय'ति महतां भयमस्मादिति महभयं, कस्मादेवमित्यत आह-'भयङ्करं' भयकर्तृ । 'झियाइ'त्ति 'ध्यायति' किमेतत् ? इति चिन्तयति, तथा 'पिहाईत्ति स्पृहयति' यद्येवंविधं प्रहरणं ममापि स्यादित्येवं तदभिलपति स्वस्थानगमनं वाऽभिलपति, अथवा 'पिहाई'त्ति अक्षिणी पिधत्ते-निमीलयति, 'पिहाइ झियाई'त्ति पूर्वोक्तमेव क्रियाद्वयं व्यत्ययेन करोति, अनेन च तस्यातिव्याकुलतोक्ता, 'तहेव'त्ति यथा ध्यातवांस्तथैव तत्क्षण एवेत्यर्थः, 'संभग्गमउडविडवे'त्ति संभग्नो मुकुटविटपः-शेखरकविस्तारो यस्य स तथा ॥ 'सालंबहत्थाभरणे'त्ति सह आलम्बेन-प्रलम्बेन वर्तन्ते सालम्बानि तानि हस्ताभरणानि यस्याधोमुखगमनवशादसौ
सालम्बहस्ताभरणः 'कक्खागयसेयंपिव'त्ति भयातिरेकात्कक्षागतं स्वेदमिव मुश्चयन् , देवानां किल खेदो न भवतीति || संदर्शनार्थः पिवशब्दः 'झत्ति वेगेणं'ति वेगेन समवपतितः, कथं ?-'झगिति' झटितिकृत्वा | तए णं तस्स सकस्स देविंदस्स देवरन्नो इमेयारूवे अज्झथिए जाव समुप्पजित्था-नो खलु पभू चमरे असुरिंदे असुरराया नो खलु समत्थे चमरे असुरिंदे असुरराया नो खलु विसए चमरस्स असुरिंदस्स असुररन्नो अप्पणो निस्साए उडे उप्पइत्ता जाव सोहम्मो कप्पो, णण्णत्थ अरिहंते वा अरिहंतचेझ्याणि वा अणगारे वा भावियप्पणो णीसाए उडे उपयति जाव सोहम्मो कप्पो, तं महादुक्खं खलु तहारूवाणं अरहताणं भगवंताणं अणगाराण य अचासायणाएत्तिकटु ओहिं पउंजति २ ममं ओहिणा आभोएति २ हा हा
॥१७५॥
Jain Education
For Personal & Private Use Only
www.jainelibrary.org