________________
१शतके १ उद्देशके चलदादिसू०७
व्याख्या- समय एव पटनिष्पत्तिदृष्टान्तेन निर्जीर्णत्वस्योपपद्यमानत्त्वादिति, पटदृष्टान्तश्च सर्वपदेषु सभावनिको वाच्यः९॥ तदे
प्रज्ञप्तिः | | वमेतान्नव प्रश्नान् गौतमेन भगवता भगवान् महावीरः पृष्टः सन्नुवाच–'हंते'त्यादि, अथ कस्माद् भगवन्तं गौतमः अभयदेवी- पृच्छति ?, विरचितद्वादशाङ्गतया विदितसकलश्रुतविषयत्वेन निखिलसंशयातीतत्वेन च सर्वज्ञकल्पत्वात्तस्य, आह चयावृत्तिः१|
| "संखाईए उ भवे साहइ जं वा पुरो उ पुच्छेज्जा । ण य णं अणाइसेसी वियाणई एस छउमत्थो॥१॥"त्ति, नैवम्' ॥१६॥ उक्तगुणत्वेऽपि छद्मस्थतयाऽनाभोगसम्भवात् , यदाह-"न हि नामानाभोगश्छद्मस्थस्येह कस्यचिन्नास्ति । यस्माज्ज्ञाना
वरणं ज्ञानावरणप्रकृति कर्म ॥१॥” इति, अथवा जानत एव तस्य प्रश्नः संभवति, स्वकीयबोधसंवादनार्थमज्ञलोकबोधनार्थ शिष्याणां वा स्ववचसि प्रत्ययोत्पादनार्थ सूत्ररचनाकल्पसंपादनार्थ वेति । तत्र 'हंता गोयमें ति, हन्तेति कोमलामन्त्रणार्थः, दीर्घत्वं च मागधदेशीप्रभवमुभयत्रापि, 'चलमाणे' इत्यादेः प्रत्युच्चारणं तु चलदेव चलितमित्यादीनां स्वानुमतत्वप्रदर्शनार्थम् । वृद्धाः पुनराहुः-'हंता गोयमा' इत्यत्र 'हन्ते'ति एवमेतदिति अभ्युपगमवचनः, यदनुमतं तत्प्रदर्शनार्थ 'चलमाणे' इत्यादि प्रत्युच्चारितमिति, इह च यावत्करणलभ्यानि पदानि सुप्रतीतान्येव ॥ एवमेतानि नव पदानि | || कर्माधिकृत्य वर्तमानातीतकालसामानाधिकरण्यजिज्ञासया पृष्टानि निर्णीतानि च, अर्थतान्येव चलनादीनि परस्परतः॥४ है किंतुल्यार्थानि भिन्नार्थानि वेति पृच्छां निर्णयं च दर्शयितुमाह
एए णं भंते ! नव पया किं एगट्टा णाणाघोसा नाणावंजणा उदाह नाणट्ठा नाणाघोसा नाणावंजणा ?, १ सङ्ख्यातीतानपि भवान् कथयति यद्वा परः पृच्छेत् । न चावध्यादिरहितो जानात्येष छद्मस इति गणधरः ॥ २ ॥
॥१६॥
in Education Internation
For Personal & Private Use Only
www.jainelibrary.org