________________
4-
JA
गोयमा ! चलमाणे चलिए १ उदीरिजमाणे उदीरिए २ वेइजमाणे वेइए ३ पहिजमाणे पहीणे ४ ते एए णं| चत्तारि पया एगट्ठा नाणाघोसा नाणावंजणा उप्पन्नपक्खस्स, छिज्जमाणे छिन्ने भिजमाणे भिन्ने दड-(डज्झ)माणे दढे मिजमाणे मडे निजरिजमाणे निजिपणे एए णं पंच पया णाणट्ठा नाणाघोसा नाणावंजणा विगयपक्खस्स (सू०८)॥
व्यक्तं, नवरम् 'एगढ'त्ति 'एकार्थानि' अनन्यविषयाणि एकप्रयोजनानि वा 'नाणाघोस'त्ति इह घोषाः-उदात्तादयः 'नाणावंजण'त्ति इह व्यञ्जनानि-अक्षराणि 'उदाहुत्ति उताहो निपातो विकल्पार्थः 'नाणदृ'त्ति भिन्नाभिधेयानि, इह च चतुर्भङ्गी पदेषु दृष्टा, तत्र कानिचिदेकार्थानि एकव्यञ्जनानि यथा क्षीरं क्षीरमित्यादीनि १, तथाऽन्यानि एकार्थानि | नानाव्यञ्जनानि यथा क्षीरं पय इत्यादीनि २, तथाऽन्यान्यनेकार्थान्येकव्यञ्जनानि यथाऽर्कगव्यमाहिषाणि क्षीराणि ३, तथाऽन्यानि नानार्थानि नानाव्यञ्जनानि यथा घटपटलकुटादीनि ४। तदेवं चतुर्भङ्गीसंभवेऽपि द्वितीयचतुर्थभङ्गको प्रश्नसूत्रे गृहीतौ, परिदृश्यमाननानाव्यञ्जनता तदन्ययोरसम्भवात्, निर्वचनसूत्रे तु चलनादीनि चत्वारि पदान्याश्रित्य द्वितीयः, छिद्यमानादीनि तु पञ्च पदान्याश्रित्य चतुर्थ इति । ननु चलनादीनामर्थानां व्यक्तभेदत्वात् कथमाद्यानि चस्वारि पदान्येकार्थानि ? इत्याशङ्याह-'उप्पन्नपक्खस्सत्ति उत्पन्नमुत्पादो, भावे क्लीवे क्तप्रत्ययविधानात् , तस्य पक्षःपरिग्रहोऽङ्गीकारः 'पक्ष परिग्रहे' इति धातुपाठादिति उत्पन्नपक्षः, इह च षष्ठ्यास्तृतीयार्थत्वाद् उत्पन्नपक्षण-उत्पादाङ्गीकारेण-उत्पादाख्यं पर्यायं परिगृह्य एकार्थान्येतान्युच्यन्ते, अथवा 'उत्पन्नपक्षस्य' उत्पादाख्यवस्तुविकल्पस्याभिधाय
Jain Educa
For Personal & Private Use Only
jainelibrary.org