________________
रुदीरणया उदीरणाप्रथमसमय एवोदीर्यमाणं कर्म पूर्वोक्तपटदृष्टान्तेनोदीरितं भवतीति २। तथा 'वेइज्जमाणे वेइए'६ ति, वेदन-कर्मणो भोगः, अनुभव इत्यर्थः, तच्च वेदनं स्थितिक्षयादुदयप्राप्तस्य कर्मण उदीरणाकरणेन वोदयमुपनीतस्य ।
भवति, तस्य च वेदनाकालस्यासङ्ख्येयसमयत्वादाद्यसमये वेद्यमानमेव वेदितं भवतीति ३ तथा 'पहिजमाणे पहीणे' |त्ति, प्रहाणं तु-जीवप्रदेशैः सह संश्लिष्टस्य कर्मणस्तेभ्यः पतनम् , एतदप्यसङ्ख्येयसमयपरिमाणमेव, तस्य तु प्रहाणस्यादि४ समये प्रहीयमाणं कर्म प्रहीणं स्यादिति ४ । तथा 'छिजमाणे छिन्ने'त्ति, छेदनं तु-कर्मणो दीर्घकालानां स्थितीनां इस्व-|| दताकरणं, तच्चापवर्तनाभिधानेन करणविशेषेण करोति, तदपि च छेदनमसङ्ख्येयसमयमेव, तस्य त्वादिसमये स्थितितस्त|च्छिद्यमानं कर्म छिन्नमिति ५ । तथा 'भिजमाणे भिन्नेत्ति भेदस्तु-कर्मणः शुभस्याशुभस्य वा तीव्ररसस्यापवर्त्तनाकरणेन मन्दताकरणं, मन्दस्य चोद्वर्तनाकरणेन तीव्रताकरणं, सोऽपि चासङ्ख्येयसमय एव, ततश्च तदाद्यसमये रसतो भिद्यमानं कर्म भिन्नमिति ६ । तथा 'डज्झमाणे दड्डे'त्ति, दाहस्तु-कर्मदलिकदारूणां ध्यानाग्निना तद्रूपापनयनमक|र्मत्वजननमित्यर्थः, यथा हि काष्ठस्याग्निना दग्धस्य काष्ठरूपापनयनं भस्मात्मना च भवनं दाहस्तथा कर्मणोऽपीति, | तस्याप्यन्तर्मुहूर्त्तवर्त्तित्वेनासङ्ख्येयसमयस्यादिसमये दह्यमानं कर्म दग्धमिति ७ । तथा 'मिजमाणे मडे' म्रियमाणमायुःकर्ममृतमिति व्यपदिश्यते, मरणं ह्यायुःपुद्गलानां क्षयः तच्चासङ्ख्येयसमयवर्ति भवति, तस्य च जन्मनः प्रथम
समयादारभ्यावीचिकमरणेनानुक्षणं मरणस्य भावान्नियमाणं मृतमिति तथा 'निजरिजमाणे निजिण्ण'त्ति, निर्जी४ार्यमाणं-नितरामपुनर्भावेन क्षीयमाणं कर्म निर्जीर्ण-क्षीणमिति व्यपदिश्यते, निर्जरणस्यासङ्ख्येयसमयभावित्वेन तत्प्रथम-*
AGRA
Jain Education
For Personal & Private Use Only
Jainelibrary.org