________________
१ शतके १उद्दशके चलदादि
त दव यथा पट उत्पद्यमान
ANA số 4G
व्याख्या- यत् , निष्फलत्वाद् , उत्पाद्योत्पादनार्था हि क्रियाः भवन्ति, यथा च प्रथमे क्रियाक्षणे नासावुत्पन्नस्तथोत्तरेष्वपि क्षणेष्व- प्रज्ञप्तिः
नुत्पन्न एवासौ प्रामोति, को झुत्तरक्षणक्रियाणामात्मनि रूपविशेषो? येन प्रथमया नोत्पन्नस्तदुत्तराभिस्तूत्पाद्यते, अतःसर्वअभयदेवी
दैवानुत्पत्तिप्रसङ्गः, दृष्टा चोत्पत्तिः, अन्त्यतन्तुप्रवेशे पटस्य दर्शनाद् , अतः प्रथमतन्तुप्रवेशकाल एव किश्चिदुत्पन्नं पटस्य, या वृत्तिः
| यावच्चोत्पन्नं न तदुत्तरक्रिययोत्पाद्यते, यदि पुनरुत्पाद्यत तदा तदेकदेशोत्पादन एव क्रियाणां कालानां च क्षयः स्यात् , यदि हि तदंशोत्पादननिरपेक्षा अन्याः क्रिया भवन्ति तदोत्तरांशानुक्रमणं युज्यते नान्यथा, तदेवं यथा पट उत्पद्यमान एवोत्पन्नस्तथैवासङ्ख्यातसमयपरिमाणत्वादुदयावलिकाया आदिसमयात्प्रभृति चलदेव कर्म चलितं, कथं ?, यतो यदि हि तत्कर्म चलनाभिमुखीभूतमुदयावलिकाया आदिसमय एव न चलितं स्यात्तदा तस्याद्यस्य चलनसमयस्य वैयर्थ्य स्यात्, तत्राचलितत्वात् , यथा च तस्मिन् समये न चलितं तथा द्वितीयादिसमयेष्वपि न चलेत्, को हि तेषामात्मनि रूपवि|शेषो ? येन प्रथमसमये न चलितमुत्तरेषु चलतीति, अतः सर्वदैवाचलनप्रसङ्गः, अस्ति चान्त्यसमये चलनं, स्थितेः परिमितत्वेन कर्माभावाभ्युपगमाद् , अत आवलिकाकालादिसमय एव किञ्चिच्चलितं, यच्च तस्मिंश्चलितं तच्चोत्तरेषु समयेषु न || चलति, यदि तु तेष्वपि तदेवाचं चलनं भवेत्तदा तस्मिन्नेव चलने सर्वेषामुदयावलिकाचलनसमयानां क्षयः स्यात्, यदि | हि तत्समयचलननिरपेक्षाण्यन्यसमयचलनानि भवन्ति तदोत्तरचलनानुक्रमणं युज्येत नान्यथा, तदेवं चलदपि तत्कर्म लिचलितं भवतीति तथा 'उदीरिजमाणे उदीरिए'त्ति, उदीरणा नाम "उदयप्राप्तं. चिरेणाऽऽगामिना कालेन यद्वे
दयितव्यं कर्मदलिकं तस्य विशिष्टाध्यवसायलक्षणेन करणेनाकृष्योदये प्रक्षेपणं सा चासङ्ख्येयसमयवर्तिनी तया च पुन-४
मुलभूतमुदयावलिकाया आलिया आदिसमयात्मभृति चल
khu
Jain Education
a
l
For Personal & Private Use Only
ainelibrary.org