________________
॥ अथ तृतीयं शतकम् ॥
989-4+
व्याख्यातं द्वितीय शतमथ तृतीयं व्याख्यायते, अस्य चायमभिसम्बन्धः - अनन्तरशतेऽस्तिकाया उक्ताः, इह तु तद्विशेषभूतस्य जीवास्तिकायस्य विविधधर्मा उच्यन्ते, इत्येवंसम्बन्धस्यास्य तृतीयशतस्योद्देशकार्थसङ्ग्रहायेयं गाथा - ariasoor चमेर किरिये जाणित्थि नगर पाला येँ । अविंद इंदिये परिसा ततियम्मि सए दसुद्देसा ॥ १ ॥
Jain Education International
तत्र 'केरिसविण' त्ति कीदृशी चमरस्य विकुर्वणाशक्तिरित्यादिप्रश्ननिर्वचनार्थः प्रथम उद्देशकः १, 'चमर' ति | चमरोत्पाताभिधानार्थी द्वितीयः २, 'किरिय' ति कायिक्यादिक्रियाद्यर्थाभिधानार्थस्तृतीयः ३, 'जाण'ति यानं देवेन वैक्रियं कृतं जानाति साधुरित्याद्यर्थनिर्णयार्थश्चतुर्थः ४, 'इत्थि' त्ति साधुर्बाह्यान् पुद्गलान् पर्यादाय प्रभुः ख्यादिरूपाणि | वैक्रियाणि कर्तुमित्याद्यर्थनिर्णयार्थः पञ्चमः ५, 'नगर'ति वाराणस्यां नगर्यां कृतसमुद्घातोऽनगारो राजगृहे रूपाणि | जानातीत्याद्यर्थ निश्चयपरः षष्ठः ६, 'पाला य'त्ति सोमादिलोकपालचतुष्टयस्वरूपाभिधायकः सप्तमः ७, 'अहिवइत्ति | असुरादीनां कति देवा अधिपतयः ? इत्याद्यर्थपरोऽष्टमः, 'इंदिय'त्ति इन्द्रियविषयाभिधानार्थो नवमः ९, 'परिस' ति | चमरपरिषदभिधानार्थो दशमः १० इति । तत्र कीदृशी विकुर्वणा ? इत्याद्यर्थस्य प्रथमोद्देशकस्येदं सूत्रम् — तेणं कालेणं तेणं समरणं मोया नामं नगरी होत्था वण्णओ, तीसे णं मोयाए नगरीए बहिया उत्तरपुर
For Personal & Private Use Only
www.jainelibrary.org