________________
मनुष्यक्षेत्र एव न परतः, परतो हि नादित्याः संचरिष्णव इति, "एवं जीवाभिगमवत्तव्वया नेयव्य'त्ति, एषा चैवम्| 'एग जोयणसयसहस्सं आयामविक्खंभेण मित्यादि 'जोइसविहूणं'ति, तत्र जम्बूद्वीपादिमनुष्यक्षेत्रवक्तव्यतायां
जीवाभिगमोकायां ज्योतिष्कवक्तव्यताऽप्यस्ति ततस्तद्विहीनं यथा भवत्येवं जीवाभिगमवक्तव्यता नेतव्येति, वाचना|न्तरे तु 'जोइसअढविहणं'ति इत्यादि बहु दृश्यते, तत्र 'जंबूद्दीवे णं भंते ! कइ चंदा पभासिंसु वा ३ ? कति सूरीया तविंसु वा ३ ? कइ नक्खत्ता जोइं जोइंसु वा ३१ इत्यादिकानि प्रत्येकं ज्योतिष्कसूत्राणि, तथा-से केणतुणं भंते ! एवं वुच्चइ जंबूद्दीवे दीवे ?, गोयमा! जंबूद्दीवेणं दीवे मंदरस्स पचयस्स उत्तरेणं लवणस्स दाहिणणं जाव तत्थ २ बहवे जंबूरुक्खा | जंबूवण्णा जाव उवसोहेमाणा चिट्ठति, से तेण?णं गोयमा ! एवं वुच्चइ जंबूद्दीवे दीवे' इत्यादीनि प्रत्येकमर्थसूत्राणि च सन्ति, ततश्चैतद्विहीनं यथा भवत्येवं जीवाभिगमवक्तव्यतया नेयं अस्योद्देशकस्य सूत्रं 'जाव इमा गाह'त्ति सङ्ग्रहगाथा, सा च-"अरहंत समय बायर विजू थणिया बलाहगा अगणी । आगर निहि नइ उवराग निग्गमे वुहिवयणं च ॥१॥" अस्याश्चार्थस्तत्रानेन सम्बन्धेनायातो-जम्बूदीपादीनां मानुषोत्तरान्तानामर्थानां वर्णनस्यान्ते इदमुक्तम्-'जावं च णं माणुसुत्तरे पबए तावं च णं अस्सिलोएत्ति पवुच्चई' मनुष्यलोक उच्यत इत्यर्थः, तथा 'अरहंतेत्ति जावं च णं अरहता चक्कवट्टी जाव सावियाओ मणुया पगइभद्दया विणीया तावं च णं अस्सिलोएत्ति पवुच्चइ । 'समय'त्ति जावं च णं || | समयाइ वा आवलिया इ वा जाव अस्सिलोएत्ति पवुच्चइ, एवं जावं च णं बायरे विजुयारे बायरे थणियसद्दे जावं च णं | बहवे ओराला बलाया संसेयंति, 'अगणि' त्ति जावं च णं बायरे तेउयाए जावं च णं आगरा इ वा निही इ वा नई इ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org