SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥१४६॥ त्रिंशद्योजनानि पञ्चाशदायामो विष्कम्भश्च पञ्चविंशतिरिति, एतेषां च विजयदेवसम्बन्धिनामिव 'अणेगखम्भसयसण्णिविट्ठा अब्भुग्गयसुकयवइरवेइया'इत्यादिवर्णको वाच्यः। तथा दाराणं उपि बहवे अठ्ठमंगलगा झया छत्ता'इत्यादि, अलङ्कारश्च सभादीनां वाच्यः, सर्व च जीवाभिगमोक्तं विजयदेवसम्बन्धि चमरस्य वाच्यं यावदु| पपातसभायां सङ्कल्पश्चाभिनवोत्पन्नस्य किं मम पूर्व पश्चाद्वा कर्तुं श्रेयः ? इत्यादिरूपः, अभिषेकश्चाभिषेकसभायां महा सामानिकादिदेवकृतः, विभूषणा च वस्त्रालङ्कारकृताऽलङ्कारसभायां, व्यवसायश्च व्यवसायसभायां पुस्तकवाचनतः, अर्चनिका च सिद्धायतने सिद्धप्रतिमादीनां, सुधर्मसभागमनं च सामा- निकादिपरिवारोपेतस्य चमरस्य, परिवारश्च सामानिकादिः, ऋद्धिमत्त्वं च 'एवंमहिड्डिए' इत्यादिवचन-1 वाच्यमस्येति, एतद् वाचनान्तरेऽर्थतः प्रायोऽवलोक्यत एवेति ॥ द्वितीयशतेऽष्टमः ॥२-८॥ ॥ प्रासादपरिपाटीसङ्ख्या ॥ २ शतके उद्देशः चमरचचाव० सू११६ समयक्षेत्र व० सू११७ उद्देश ९ SAMACREACHERS चमरचञ्चालक्षणं क्षेत्रमष्टमोद्देशक उक्तम्, अथ क्षेत्राधिकारादेव नवमे समयक्षेत्रमुच्यत इत्येवंसम्बन्धस्यास्येदं सूत्रम् किमिदं भंते ! समयखेत्तेत्ति पवुच्चति ?, गोयमा ! अट्ठाइजा दीवा दोय समुदा एसणं एवइए समयखेत्तेति |पवुञ्चति, तत्थ णं अयं जंबूद्दीवे २ सव्वदीवसमुद्दाणं सव्वब्भंतरे एवं जीवाभिगमवत्तव्वया (जोइसविहणं) नेयव्वा जाव अभितरं पुक्खरद्धं जोइसविहूणं (इमा गाहा)॥ (सू०११७) ॥ वितीयस्स नवमो उद्देसो॥२-९॥ "किमिदमित्यादि तत्र समयः-कालस्तेनोपलक्षितं क्षेत्रं समयक्षेत्रं, कालो हि दिनमासादिरूपः सूर्यगतिसमभिव्यङ्गयो ॥१४६॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy