________________
|त्ताओ एवं पुरच्छिमेणं पंचण्हं अग्गमहिसीणं सपरिवाराणं पंच भद्दासणाई सपरिवाराई दाहिणपुरच्छिमेणं अभितरियाए परिसाए चउचीसाए देवसाहस्सीणं चउबीसं भद्दासणसाहस्सीओ, एवं दाहिणेणं मज्झिमाए अठ्ठावीसं भद्दासणसाहस्सीओ, दाहिणपञ्चस्थिमेणं बाहिरियाए बत्तीसं भद्दासणसाहस्सीओ पञ्चत्थिमेणं सत्तण्हं अणियाहिवईणं सत्त भद्दासणाई चउद्दिसिं आयरक्खदेवाणं चत्तारि भद्दासणसहस्सचउसठ्ठीओ'त्ति, 'तेत्तीसं भोम'त्ति वाचनान्तरे दृश्यते, तत्र भौमानि-विशिष्टस्थानानि नगराकाराणीत्यन्ये, 'उवयारियलेणं ति गृहस्य पीठबन्धकल्पं 'सव्वप्पमाणं वेमाणियप्पमाणस्स अद्धं नेयव्वं'ति, अयमर्थः-यत्तस्यां राजधान्यां प्राकारप्रासादसभादिवस्तु तस्य सर्वस्योच्छ्रयादिप्रमाणं सौधमेवैमानिकविमानप्राकारप्रासादसभादिवस्तुगतप्रमाणस्यार्द्ध च नेतव्यं, तथाहि-सौधर्मवैमानिकानां विमानप्राकारो | योजनानां त्रीणि शतान्युच्चत्वेन, एतस्यास्तु सार्द्ध शतं, तथा सौधर्मवैमानिकानां मूलप्रासादः पञ्च योजनानां शतानि | तदन्ये चत्वारस्तत्परिवारभूताः साढ़े द्वे शते ४ प्रत्येकं च तेषां चतुर्णामप्यन्ये परिवारभूताश्चत्वारः सपादशतम् १६ एवमन्ये तत्परिवारभूताः सार्द्धा द्विषष्टिः ६४ एवमन्ये सपादैकत्रिंशत् , २५६ इह तुमूलप्रासादाः साढे द्वे योजनशते एवमर्वार्द्धहीनास्तदपरे यावदन्तिमाः पञ्चदश योजनानि पञ्च च योजनस्याष्टांशाः, एतदेव वाचनान्तरे उक्तम्-'चत्तारि परिवाडीओ |पासायवडेंसगाणं अद्धद्धहीणाओ'त्ति एतेषां च प्रासादानां चतसृष्वपि परिपाटीषु त्रीणि शतान्येकचत्वारिंशदधिकानि भवन्ति, एतेभ्यः प्रासादेभ्य उत्तरपूर्वस्यां दिशि सभा सुधर्मा सिद्धायतनमुपपातसभा ह्रदोऽभिषेकसभाऽलङ्कारसभा | व्यवसायसभा चेति, एतानि च सुधर्मसभादीनि सौधर्मवैमानिकसभादिभ्यः प्रमाणतोऽर्द्धप्रमाणानि, ततश्चोच्छ्रय इहैषां षट्
dain Education International
For Personal & Private Use Only
www.jainelibrary.org