________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १
• ॥१४५॥
पण्णत्ते' 'वर्णकव्यासः' वर्णकविस्तरः 'वइरामया नेमा' इत्यादि, 'नेम'त्ति स्तम्भानां मूलपादाः । वनखण्डवर्णकस्त्वेवम्'से णं वणसंडे देसूणाई दो जोयणाई चक्कवालविक्खंभेणं पउमवर वेइया परिक्खेवसमे परिक्खेवेणं, किण्हे किण्हाभासे' | इत्यादि । 'बहुसमरमणिज्जे 'त्ति अत्यन्तसमो रमणीयश्चेत्यर्थः 'वन्नओ'त्ति वर्णकस्तस्य वाच्यः स चायम् -' से जहानामए आलिंगपुक्खरे इ वा' आलिंगपुष्करं - मुरजमुखं तद्वत्सम इत्यर्थः, 'मुइंगपुक्खरे इ वा सरतले इ वा करतले इ वा आयंसमंडले इ वा चंदमंडले इ वे'त्यादि । 'पासायवडिंसए'त्ति प्रासादोऽवतंसक इव- शेखरक इव प्रधानत्वात् प्रासादावतंसकः, 'पासायवण्णओ'त्ति प्रासादवर्णको वाच्यः, स चैवम्- 'अब्भुग्गयमूसियपहसिए' अभ्युद्गतमवोद्गतं वा यथाभवत्येवमुच्छ्रितः, अथवा मकारस्यागमिकत्वाद् अभ्युद्गतश्चासावुच्छ्रितश्चेत्यभ्युद्गतोच्छ्रितः, अत्यर्थमुच्च इत्यर्थः, प्रथमैकवचनलोपश्चात्र दृश्यः, तथा प्रहसित इव प्रभापटल परिगततया प्रहसितः प्रभया वा सितः - शुक्लः संबद्धो वा प्रभासित इति, 'मणिकणगरयणभत्तिचित्ते' मणिकनकरत्नांनां भक्तिभिः - विच्छित्तिभिश्चित्रो विचित्रो यः स तथा, इत्यादि 'उल्लोयभूमिवण्णओ'ति उल्लोचवर्णकः प्रासादस्योपरिभागवर्णकः, स चैवम्- 'तस्स णं पासायवडिंसगस्स इमेयारूवे उल्लोए | पण्णत्ते - ईहा मिगउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयप उमलयभत्तिचित्ते जाव सबतवणिजमए अच्छे जाव पडिरूवे' भूमिवर्णकस्त्वेवम्- 'तस्स णं पासायवडिंसयस्स बहुसमरमणिजे भूमिभागे पण्णत्ते, तंजहा - आलिंगपुक्खरे इ वे'त्यादि, 'सपरिवारं 'ति चमरसम्बन्धिपरिवारसिंहासनोपेतं तच्चैवम् -' तस्स णं सिंहासणस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरच्छिमेणं एत्थ णं चमरस्स चउसडीए सामाणियसाहस्सीणं चउसट्ठीए भद्दासणसाहस्सीओ पण्ण
Jain Education International
For Personal & Private Use Only
२ शतके उद्देशः ८ चमरचला. व०सू ११६
॥ १४५ ॥
www.jainelibrary.org