SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ *OMGAOCOCCCCCCCCCC इह यद्यपि प्रवृत्तदीपत्वादेवाप्रवृत्तभास्करत्वमवगतं तथाऽप्यप्रवृत्तभास्करत्वं प्रवृत्तदीपत्वादेर्हेतुतयोपन्यस्तमिति, 'उप्प नसंसए उप्पन्नकोउहल्ले'त्ति प्राग्वत् , तथा 'संजायसड्डे' इत्यादि पदपटू प्राग्वत् , नवरमिह संशब्दः प्रकर्षादिवचनो, यथा-"संजातकामो बलभिद्विभूत्यां, मानात् प्रजाभिः प्रतिमाननाच्च ।" (संजातकामः-) ऐन्ट्रैश्वर्ये प्रकर्षेण जातेच्छः कार्तवीर्य इति । अन्ये तु 'जायसडे' इत्यादि विशेषणद्वादशकमेवं व्याख्यान्ति-जाता श्रद्धा यस्य प्रष्टुं स जातश्रद्धः, किमिति जातश्रद्धः? इत्यत आह-यस्माजातसंशयः, इदं वस्त्वेवं स्यादेवं वेति, अथ जातसंशयोऽपि कथमित्यत आह-यस्माज्जातकुतूहलः कथं नामास्यार्थमवभोत्स्ये ? इत्यभिप्रायवानिति, एतच्च विशेषणत्रयमवग्रहापेक्षया द्रष्टव्यम् , एवमुत्पन्नसंजा-5 तसमुत्पन्नश्रद्धत्वादय ईहापायधारणाभेदेन वाच्याः, अन्ये त्वाहुः-जातश्रद्धत्वाद्यपेक्षयोत्पन्नश्रद्धत्वादयः समानार्था विवक्षितार्थस्य प्रकर्षवृत्तिप्रतिपादनाय स्तुतिमुखेन ग्रन्थकृतोक्ताः, न चैवं पुनरुक्तं दोषाय, यदाह-"वक्ता हर्षभयादिभि| राक्षिप्तमनाः स्तुवंस्तथा निन्दन् । यत्पदमसकृद् ब्रूते तत्पुनरुक्तं न दोषाय ॥१॥” इति । 'उहाए उठेह'त्ति उत्थानमुत्था-उर्दू वर्त्तनं तया उत्थया 'उत्तिष्ठति' ऊो भवति, 'उठेई' इत्युक्ते क्रियारम्भमात्रमपि प्रतीयते यथा वक्तुमुत्तिष्ठते इति ततस्तव्यवच्छेदायोक्तमुत्थयति, 'उहाए उहित्त'त्ति उपागच्छतीत्युत्तरक्रियाऽपेक्षया उत्थानक्रियायाः पूर्वकालता|ऽभिधानाय उत्थयोत्थायेति क्त्वाप्रत्ययेन निर्दिशतीति । 'जेणेवे'त्यादि, इह प्राकृतप्रयोगादव्ययत्वाद्वा येनेति यस्मिन्नेव| दिग्भागे श्रमणो भगवान् महावीरो वर्त्तते 'तेणेव'त्ति तस्मिन्नेव दिग्भागे उपागच्छति, तत्कालापेक्षया वर्तमानत्वादागमनक्रियाया वर्तमानविभक्त्या निर्देशः कृतः, उपागतवानित्यर्थः, उपागम्य च श्रमणं ३ कर्मतापन्नं 'तिक्खुत्तो'त्ति त्रीन् DRONOCOCCACASCA4%CROCK Jain Education in For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy