________________
शेषेण लोकमत
सयसहस्से, एत्थ णं भवणवासीणं देवाणं सत्त भवणकोडीओ बावत्तरं च भवणावाससयसहस्सा भवंतीति मक्खाय'इत्या|दि । तद्गतमेवाभिधेयविशेष विशेषेण दर्शयति-'उववाएणं लोयस्स असंखेजइभागे'त्ति, उपपातो-भवनपतिस्वस्थानप्राध्याभिमुख्यं तेनोपपातमाश्रित्येत्यर्थः, लोकस्यासक्येयतमे भागे वर्तन्ते भवनवासिन इति । 'एवं सव्वं भाणियवं'ति 'एवम्' उक्तन्यायेनान्यदपि भणितव्यं, तच्चेदम्-'समुग्घाएणं लोयस्स असंखेजइभागे'त्ति मारणान्तिकादिसमु
द्घातवर्तिनो भवनपतयो लोकस्यासङ्ख्येय एव भागे वर्तन्ते । तथा 'सहाणेणं लोयस्स असंखेजे भागे' स्वस्थानस्य-उक्त भवनवीससातिरेककोटीसप्तकलक्षणस्य लोकासङ्ख्येयभागवर्तित्वादिति, एवमसुरकुमाराणाम् , एवं तेषामेव दाक्षिणात्या| नामौदीच्यानाम् , एवं नागकुमारादिभवनपतीनां यथौचित्येन व्यन्तराणां ज्योतिष्काणां वैमानिकानां च स्थानानि वाच्यानि, कियडूरं यावदित्याह-जाव सिद्धे'त्ति यावत्सिद्धगण्डिका-सिद्धस्थानप्रतिपादनपरं प्रकरणं, सा चैवम्-'कहि णं भंते ! सिद्धाणं ठाणा पण्णत्ता?' इत्यादि, इह च देवस्थानाधिकारे यत्सिद्धगण्डिकाऽभिधानं तत्स्थानाधिकारबलादित्यवसेयं, तथेदमपरमपि जीवाभिगमप्रसिद्धं वाच्यं, तद्यथा-'कप्पाण पइट्टाणं' कल्पविमानानामाधारो वाच्य | इत्यर्थः, स चैवम्-'सोहम्मीसाणेसु णं भंते ! कप्पेसु विमाणपुढवी किंपइट्ठिया पण्णत्ता ?, गोयमा ! घणो-| दहिपइट्ठिया पण्णत्ता'इत्यादि, आह च-"धणउदहिपइट्ठाणा सुरभवणा होंति दोसु कप्पेसु । तिसु वाउपइट्ठाणा
१ द्वयोः कल्पयोर्घनोदधिप्रतिष्ठानानि सुरभवनानि वायुपतिष्ठानानि त्रिषु त्रिषु च तदुभयप्रतिष्ठानानि ॥ १॥ ततः परमुपरितनानि आकाशान्तरप्रतिष्ठितानि सर्वाणि ।।
Jain Education Internal oral
For Personal & Private Use Only
www.jainelibrary.org