________________
व्याख्या- प्रज्ञप्तिः अभयदेवी या वृत्तिः
२ शतके उद्देशः ५ तुङ्गिकाश्रावका: सू१०७
॥१३५॥
शेषाः गन्धर्वा महोरगाश्च-व्यन्तरविशेषाः 'अणतिक्कमणिज'त्ति अनतिक्रमणीयाः-अचालनीयाः, 'लढ'त्ति अर्थश्रव- णात् 'गहिय?'त्ति अर्थावधारणात् 'पुच्छिय'त्ति सांशयिकार्थप्रश्नकरणात् 'अभिगहिय?'त्ति प्रनितार्थस्याभिगमनात् 'विणिच्छियत्ति ऐदम्पर्यार्थस्योपलम्भाद् अत एव 'अद्विमिंजपेम्माणुरागरत्ता' अस्थीनि च-कीकसानि मिञ्जा च-तन्मध्यवर्ती धातुरस्थिमिजास्ताः प्रेमानुरागेण-सर्वज्ञप्रवचनप्रीतिरूपकुसुम्भादिरागेण रक्ता इव रक्ता येषां ते तथा, अथवाऽस्थिमिञ्जासु जिनशासनगतप्रेमानुरागेण रक्ता ये ते तथा, केनोल्लेखेन ? इत्याह-'अयमाउसो'इत्यादि, अयमितिप्राकृतत्वादिदम् 'आउसो'त्ति आयुष्मन्निति पुत्रादेरामन्त्रणं 'सेसेत्ति शेष-निर्ग्रन्थप्रवचनव्यतिरिक्तं धनधान्यपुत्रकलत्र| मित्रकुप्रवचनादिकमिति, "ऊसियफलिह'त्ति उच्छ्रितम्-उन्नतं स्फटिकमिव स्फटिक चित्तं येषां ते उच्छ्रितस्फटिकाः मौनीन्द्रप्रवचनावाप्त्या परितुष्टमानसा इत्यर्थ इति वृद्धव्याख्या, अन्ये त्वाहुः-उच्छ्रितः-अर्गलास्थानादपनीयोवीकृतो न तिरश्चीनः कपाटपश्चाद्भागादपनीत इत्यर्थः परिधः-अर्गला येषां ते उच्छ्रितपरिघ्राः, अथवोच्छ्रितो-गृहद्वारादपगतः परिघो | येषां ते उच्छ्रितपरिघाः, औदार्यातिशयादतिशयदानदायित्वेन भिक्षुकाणां गृहप्रवेशनार्थमनर्गलितगृहद्वारा इत्यर्थः, 'अवंगुयदुवाति अप्रावृतद्वारा:-कपाटादिभिरस्थगितगृहद्वारा इत्यर्थः, सद्दर्शनलाभेन न कुतोऽपि पापण्डिकाद्विभ्यति, शोभनमा
परिग्रहेणोद्घाटशिरसस्तिष्ठन्तीति भाव इति वृद्धव्याख्या, अन्ये त्वाहुः-भिक्षुकप्रवेशार्थमौदार्यादस्थगितगृहद्वारा इत्यर्थः, ला'चियत्तंतेउरघरप्पवेसा' 'चियत्तो'त्ति लोकानां प्रीतिकर एवान्तःपुरे वा गृहे वा प्रवेशो येषां ते तथा, अतिधार्मि-1
कतया सर्वत्रानाशङ्कनीयास्त इत्यर्थः, अन्ये त्वाः-'चियत्तोत्ति नाप्रीतिकरोऽन्तःपुरगृहयोः प्रवेशः-शिष्टजनप्रवेशनं
॥१३५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org