________________
RSSRASHRS
वणसयणासणजाणवाहणाइण्णा' विस्तीर्णानि-विस्तारवन्ति विपुलानि-प्रचुराणि भवनानि-गृहाणि शयनासनयान-18 वाहनैराकीर्णानि येषां ते तथा, अथवा विस्तीर्णानि-विपुलानि भवनानि येषां, ते शयनासनयानवाहनानि चाकीर्णानिगुणवन्ति येषां ते तथा, तत्र यानं-गव्यादि वाहनं तु-अश्वादि, 'बहुधणबहुजायरूवरयया'बहु-प्रभूतं धनं-गणिमा-2 दिक तथा बहु एव जातरूपं-सुवर्ण रजतं च-रूप्यं येषां ते तथा, 'आओगपओगसंपउत्ता' आयोगो-द्विगुणादि | वृक्ष्याऽर्थप्रदान प्रयोगश्च-कलान्तरं तौ संप्रयुक्तौ-व्यापारितोयैस्ते तथा, 'विच्छड्डियविउलभत्तपाणा' विच्छति-विविधमुज्झितं बहुलोकभोजनत उच्छिष्टावशेषसम्भवात् विच्छर्दितं वा-विविधविच्छित्तिमद्विपुलं भक्तं च पानकं च येषां ते तथा, 'बहुदासीदासगोमहिसगवेलगप्पभूया' बहवो दासीदासा येषां ते गोमहिषगवेलकाश्च प्रभूता येषां ते तथा, गवे|लका-उरभ्राः, 'बहुजणस्स अपरिभूया' बहोर्लोकस्यापरिभवनीयाः, 'आसवे'त्यादौ क्रिया:-कायिक्यादिकाः 'अधि
करणं' गन्त्रीयन्त्रकादि 'कुसल'त्ति आश्रवादीनां हेयोपादेयतास्वरूपवेदिनः, 'असहेजे'त्यादि, अविद्यमानं साहाय्यं8 परसाहायकम् अत्यन्तसमर्थत्वाद्येषां तेऽसाहाय्यास्ते च ते देवादयश्चेति कर्मधारयः, अथवा व्यस्तमेवेदं तेनासाहाय्या-18
आपद्यपि देवादिसाहायकानपेक्षाः स्वयं कृतं कर्म स्वयमेव भोक्तव्यमित्यदीनमनोवृत्तय इत्यर्थः अथवा पाषण्डिभिः प्रारब्धाः सम्यक्त्वाविचलनं प्रति न परसाहाय्यमपेक्षन्ते, स्वयमेव तत्प्रतिघातसमर्थत्वाजिनशासनात्यन्तभावितत्वाञ्चेति, तत्र देवा-वैमानिकाः 'असुरे'ति असुरकुमाराः 'नाग'त्ति नागकुमाराः, उभयेऽप्यमी भवनपतिविशेषाः, 'सुवण्ण'त्ति | सद्वर्णाः ज्योतिष्काः यक्षराक्षसकिंनरकिंपुरुषा:-व्यन्तरविशेषाः 'गरुल'त्ति गरुडध्वजाः सुपर्णकुमारा:-भवनपतिवि
-455
Jain Education
na
For Personal & Private Use Only
www.jainelibrary.org