________________
२३
भिरुवे' मनोज्ञरूपः 'पडिरूवे 'त्ति द्रष्टारं २ प्रति रूपं यस्य स तथेति, एकेनैकदैक एव वेदो वेद्यते, इह कारणमाह' इत्थी इत्थवेणमित्यादि ॥ परिचारणायां किल गर्भः स्यादिति गर्भप्रकरणं, तत्र
उद्गग णं भंते ! उद्गगन्भेत्ति कालतो केवच्चिरं होइ ?, गोयमा ! जहन्नेणं एवं समयं उक्कोसेणं छम्मासा ॥ तिरिक्खजोणियगन्भे णं भंते! तिरिक्खजोणियगन्भेत्ति कालओ केवचिरं होति ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अट्ठ संवच्छराई ॥ मणुस्सीगन्भे णं भंते ! मणुस्सीगन्भेत्ति कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बारस संवच्छराई ॥ ( सू० १०१ ) ॥
'उद्गग णं' क्वचित् 'द्गगठभे णं'ति दृश्यते, तत्रोदकगर्भः - कालान्तरेण जलप्रवर्षणहेतुः पुद्गलपरिणामः, तस्य | चावस्थानं जघन्यतः समयः, समयानन्तरमेव प्रवर्षणात्, उत्कृष्टतस्तु षण्मासान् षण्णां मासानामुपरि वर्षणात्, अयं च मार्गशीर्षपौषादिषु वैशाखान्तेषु सन्ध्यारागमेघोत्पादादिलिङ्गो भवति, यदाह - " पौषे समार्गशीर्षे सन्ध्यारागोऽम्बुदाः सपरिवेषाः । नात्यर्थं मार्गशिरे शीतं पोषेऽतिहिमपातः ॥ १ ॥" इत्यादि ॥
कायभवत्थे णं भंते ! कायभवत्थेति कालओ केवचिरं होइ ?, गोयमा ! जहन्त्रेणं अंतोमुद्दतं उक्कोसेणं चउव्वीसं संवच्छराई । ( सू० १०२ ) । मणुस्स पंचेंदियतिरिक्खजोणियबीए णं भंते! जोणियन्भूए केवतियं कालं संचिइ ?, गोयमा ! जहनेणं अंतोमुहुत्तं उक्कोसेणं बारस मुहुत्ता ॥ ( सू० १०३ ) ॥
'कायभवत्थे णं भंते' इत्यादि, काये - जनन्युदरमध्यव्यवस्थितनिजदेह एव यो भवो - जन्म स कायभवस्तत्र तिष्ठति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org