SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥१३०॥ | 'कइणं भंते ! पुढवीओ'इत्यादि, इहच जीवाभिगमे नारकद्वितीयोदेशकार्थसङ्ग्रहगाथा-"पुढवी ओगाहित्ता निरया । २ शतके संठाणमेव बाहल्लं । विक्खंभपरिक्खेवो वण्णो गंधो य फासो य ॥१॥" सूत्रपुस्तकेषु च पूर्वार्द्धमेव लिखितं, शेषाणां । उद्दशः३ विवक्षितार्थानां यावच्छब्देन सूचितत्वादिति, तत्र 'पुढवि'त्ति पृथिव्यो वाच्याः, ताश्चैवम्-'कइणं भंते ! पुढवीओ पण्ण पृथ्व्यधित्ताओ?, गोयमा ! सत्त, तंजहा–रयणप्पभे'त्यादि, 'ओगाहित्ता निरय'त्ति पृथिवीमवगाह्य कियहरे नरकाः १ इति कारःसू९८ वाच्यं, तत्रास्यां रत्नप्रभायामशीतिसहस्रोत्तरयोजनलक्षवाहल्यायामुपर्येक योजनसहस्रमवगाह्याधोऽप्येक वर्जयित्वा त्रिंशनरकलक्षाणि भवन्ति, एवं शर्कराप्रभादिषु यथायोगं वाच्यं, 'संठाणमेव'त्ति नरकसंस्थानं वाच्यं, तत्र ये आवलिकाप्रविष्टास्ते वृत्ताख्यम्राश्चतुरश्राश्च, इतरे तु नानासंस्थानाः, 'बाहल्लं'ति नरकाणां बाहल्यं वाच्यं, तच्च त्रीणि योजनसहस्राणि, कथम् ?, अध एक मध्ये शुषिरमेकमुपरि च सङ्कोच एकमिति, 'विक्खंभपरिक्खेवो'त्ति एतौ वाच्यौ, तत्र सङ्ख्यातविस्तृतानां सङ्ख्यातयोजन आयामो विष्कम्भः परिक्षेपश्च, इतरेषां त्वन्यथेति । तथा वर्णादयो वाच्याः, ते चात्य-5 न्तमनिष्टा इत्यादि बहु वक्तव्यं यावदयमुद्देशकान्तः, यदुत-'किं सव्वपाणा ?' इत्यादि, अस्य चैवं प्रयोगः-अस्यां रत्नप्रभायां त्रिंशन्नरकलक्षेषु किं सर्वे प्राणादय उत्पन्नपूर्वाः, अत्रोत्तरम्-'असई'ति असकृद्-अनेकशः, इदं च वेलाद्वया-| दावपि स्यादतोऽत्यन्तबाहुल्यप्रतिपादनायाह-'अदुव'त्ति अथवा 'अणंतखुत्तो'त्ति 'अनन्तकृत्वः' अनन्तवारानिति ॥ 18 ॥१३०॥ द्वितीयशते तृतीयः॥२-३ ॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy