SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः१ २ शतके उद्देशः २ समुद्घाताः सू९७ ॥१२९॥ 'कइणंभंते ! समुग्घाए'त्यादि, तत्र 'हन हिंसागत्योः' इति वचनाद् हननानि-घाताः सम्-एकीभावे उत्-प्राबल्येन | ततश्चैकीभावेन प्राबल्येन च घाताः समुद्घाताः, अथ केन सहकीभावः ?, उच्यते, यदाऽऽत्मा वेदनादिसमुद्घातगतो भवति तदा वेदनाद्यनुभवज्ञानपरिणत एव भवतीति वेदनाद्यनुभवज्ञानेन सहकीभावः, अथ प्रावल्येन घाताः कथम् ?, उच्यते, यस्माद्वेदनादिसमुद्घातपरिणतो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्य | उदये प्रक्षिप्यानुभूय निर्जरयति, आत्मप्रदेशैः सह श्लिष्टान् शातयतीत्यर्थः, अतः प्राबल्येन पाता इति । 'सत्त समुग्याय'त्ति वेदनासमुद्घातादयः, एते च प्रज्ञापनायामिव द्रष्टव्याः, अत एवाह-'छाउमस्थिए'त्यादि, 'छाउमत्थियसमुग्घायवज्जति 'कइ णं भंते ! छाउमत्थिया समुग्घाया पण्णत्ता' इत्यादिसूत्रवर्जितं 'समुग्घायपयंति प्रज्ञापनायाः पत्रिंशत्तमपदं समुद्घातार्थमिह नेतव्यं, तच्चैवम्-'कइ णं भंते ! समुग्घाया पण्णत्ता ?, गोयमा! सत्त समुग्घाया |पण्णत्ता, तंजहा-वेयणासमुग्घाए कसायसमुग्घाए'इत्यादि, इह सङ्ग्रहगाथा-"वेयण १ कसाय २ मरणे ३ वेउब्विय ४ तेयए य ५ आहारे ६ । केवलिए चेव ७ भवे जीवमणुस्साण सत्तेव ॥१॥"जीवपदे मनुष्यपदे च सप्त वाच्याः , नारकादिषु तु यथायोगमित्यर्थः, तत्र वेदनासमुद्घातेन समुद्धत आत्मा वेदनीयकर्मपुद्गलानां शातं करोति, कषायस| मुद्घातेन कषायपुद्गलानां मारणान्तिकसमुद्घातेनायुःकर्मपुद्गलानां वैकुर्विकसमुद्घातेन समुद्धतो जीवः प्रदेशान् | शरीरादहिनिष्काश्य शरीरविष्कम्भबाहल्यमात्रमायामतश्च सङ्ख्येययोजनानि दण्डं निसृजति निसृज्य च यथास्थूलान् ॥१२९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy