________________
| कल्लं पाउप्पभाए जाव जलंते जेणेव मम अंतिए तेणेव हव्वमागए, से नूणं खंद्या ! अढे समझे ?, हंता
अत्थि, अहासुहं देवाणुप्पिया ! मा पडिबंधं ॥ (सू०९४)॥ _ 'पुव्वरत्तावरत्तकालसमयंसि'त्ति पूर्वरात्रश्च-रात्रेः पूर्वो भागः अपररात्रश्च-अपकृष्टा रात्रिः पश्चिमतद्भाग इत्यर्थः, तल्लक्षणो यः कालसमयः कालात्मकः समयः स तथा तत्र, अथवा पूर्वरात्रापररात्रकालसमय इत्यत्र रेफलोपात् 'पुबरत्तावरत्तकालसमयंसि'त्ति स्याद्, धर्मजागरिकां जाग्रतः-कुर्वत इत्यर्थः, 'तं अत्थि ता मे'त्ति तदेवमप्यस्ति तावन्मम उत्थानादि न सर्वथा क्षीणमिति भावः 'तं जाव ता मे अत्थि'त्ति तत्-तस्माद्यावत्ता इति भाषामात्रे 'मे' ममास्ति 'जाव | यत्ति यावच्च 'सुहत्थि'त्ति शुभार्थी भव्यान् प्रति सुहस्ती वा पुरुषवरगन्धहस्ती, एतच्च भगवत्साक्षिकोऽनशनविधिर्महाफलो भवतीत्यभिप्रायेण भगवन्निर्वाणे शोकदुःखभाजनं मा भूवमहम् इत्यभिप्रायेण वा चिन्तितमनेनेति, 'कल्लमि' त्यादि, 'कल्लं'ति श्वः प्रादुः-प्राकाश्ये ततः प्रकाशप्रभातायां रजन्यां 'फुल्लोत्पलकमलकोमलोन्मीलिते' फुल्लं-विकसितं तच्चतदुत्पलं च फुल्लोत्पलं तच्च कमलश्च -हरिणविशेषः फुल्लोत्पलकमलौ तयोः कोमलम्-अकठोरमुन्मीलितं-दलानां नयनयोश्चोन्मीलनं यस्मिंस्तत्तथा तस्मिन् 'अथेति रजनीविभातानन्तरं पाण्डुरे प्रभाते रक्ताशोकप्रकाशेन किंशुकस्य शुकमुखस्य गुञ्जार्द्धस्य च रागेण सदृशो यः स तथा तस्मिन् , तथा कमलाकरा-इदादयस्तेषु षण्डानि-नलिनीषण्डानि तेषां
बोधको यः स कमलाकरपण्डबोधकस्तस्मिन् 'उत्थिते' अभ्युद्गते, कस्मिन् ? इत्याह-सूरे, पुनः किम्भूते ? इत्याह४॥'कडाइहिं ति, इह पदैकदेशात्पदसमुदायो दृश्यस्ततः कृतयोग्यादिभिरिति स्यात्, तत्र कृता योगा:-प्रत्युपेक्षणादि
dan Education international
For Personal & Private Use Only
www.janelibrary.org